Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग
३७५ सूरस्सवि नायव्वो सगेण अयणेण मंडलविभागो ।
अयणमि उ जे दिवसा रूवहिए मंडले हवइ ॥ ३४३ ॥ सूर्यस्यापि पर्वविषयो मण्डलविभागो ज्ञातव्यः स्वकीयेनायनेन, किमुक्तं भवति ? सूर्यस्य स्वकीयमयनमपेक्ष्य तस्मिन् तस्मिन् मण्डले तस्य तस्य पर्वणः परिसमाप्तिहेतुताऽवधारणीयेति, तत्रायने शोधिते सति ये दिवसा उद्धरिता वर्तन्ते तत्सङ्ख्ये रूपाधिके मण्डले तदीप्सितं पर्व परिसमाप्तं भवतीति वेदितव्यम् । एषा करणगाथाऽक्षरघटना, भावार्थस्त्वयम्-इह यत् पर्व कस्मिन् मण्डले समाप्तमिति ज्ञातुमिष्टं तत्सङ्ख्या ध्रियते, धृत्वा च पञ्चदशभिर्गुण्यते, गुणयित्वा च रूपाधिका क्रियते, ततः संभवन्तोऽवमरात्राः पात्यन्ते, ततो यदि त्र्यशीत्यधिकेन शतेन भागः पतति तर्हि भागे हृते यल्लभ्यते तान्ययनानि ज्ञातव्यानि, केवलं या पश्चादिवससङ्ख्याऽवतिष्ठते तदन्तिमे मण्डले विवक्षितं पर्व परिसमाप्तमित्यवसेयम्, उत्तरायणे च वर्तमाने बाह्यं मण्डलमादि कर्त्तव्यं, दक्षिणायने च सर्वाभ्यन्तरमिति ॥ सम्प्रति भावना क्रियते, तत्र कोऽपि पृच्छति-कस्मिन् मण्डले स्थितः सूर्यो युगे प्रथमं पर्व समापयतीति, इह प्रथमं पृष्टमित्येकः स्थाप्यते, स पञ्चदशभिर्गुण्यते, जाता: पञ्चदश, अत्रैकोऽप्यवमरात्रौ न सभवतीति न किमपि पात्यते, ते च पञ्चदश रूपाधिकाः क्रियन्ते, जाताः षोडश, युगादौ च प्रथमं पर्व दक्षिणायने, तत आगतंसर्वाभ्यन्तरमण्डलमादि कृत्वा षोडशे मण्डले प्रथमं पर्व परिसमाप्तमिति, तथाऽपरः पृच्छति-चतुर्थं पर्व कस्मिन् मण्डले परिसमाप्नोति ? इति, तत्र चतुष्को ध्रियते, धृत्वा च पञ्चदशभिर्गुण्यते, जाता षष्टिः, अत्रैकोऽवमरात्रः संभवतीत्येकः पात्यते, जाता एकोनषष्टिः, सा भूयोऽप्येकरूपयुता क्रियते, जाता षष्टिः, आगतं सर्वाभ्यन्तरं मण्डलमादिं कृत्वा षष्टितमे मण्डले चतुर्थं पर्व परिसमाप्तमिति । तथा पञ्चविंशतितमपर्वजिज्ञासायां पञ्चविंशतिः स्थाप्यते, सा पञ्चदशभिर्गुण्यते, जातानि त्रीणि शतानि पञ्चसप्तत्यधिकानि ३७५, अत्र षडवमरात्रा जाता इति षट् शोध्यंते, जातानि त्रीणि शतानि एकोनसप्तत्यधिकानि ३६९, तेषां त्र्यशीत्यधिकेन शतेन भागो हियते, लब्धौ द्वौ, पश्चात्तिष्ठन्ति त्रीणि, तानि रूपयुतानि क्रियन्ते, जातानि चत्वारि, यौ च द्वौ लब्धौ ताभ्यां द्वे अयने दक्षिणायनोत्तरायणरूपे शुद्ध, तत आगतं तृतीयेऽयने दक्षिणायनरूपे सर्वाभ्यन्तरमण्डलमादिं कृत्वा चतुर्थे मण्डले पञ्चविंशतितमं पर्व समाप्तमिति । चतुर्विंशत्यधिकशततमपर्वजिज्ञासायां - चतुर्विंशत्यधिकं शतं स्थाप्यते, तत् पंचदशभिर्गुण्यते, जातान्यष्टादश शतानि त्रिंशदधिकानि १८३०, तानि

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466