Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
अधिकार वीसमो - प्रनष्ट पर्व
३९७
त्रयोदशभिः शतैस्त्रिनवत्यधिकैर्गुणयेत्, जातमेकं लक्षं त्रयोविंशतिसहस्राणि नव शतानि सप्तसप्तत्यधिकानि १२३९७७, तेषामष्टादशभिः शतैस्त्रिंशदधिकैर्भागो हियते, लब्धं त्यज्यते, स्थितानि शेषाणि त्रयोदश शतानि सप्तषष्ट्यधिकानि १३६७, एतानि प्रतिराश्यन्ते १३६७, तत आदिमस्य राशेरेकषष्ट्या भागहरणं, लब्धा द्वाविंशतिः, सा प्रतिराशौ प्रक्षिप्यते, जातानि त्रयोदश शतानि नवाशीत्यधिकानि १३८९, तेषां पञ्चदशभिर्भागो हियते, लब्धा द्विनवतिः, शेषास्तिष्ठन्ति नव, तत आगतं द्विनवतितमे पर्वणि नवम्यामुदयति सूर्ये धनिष्ठाया एका कला चन्द्रमसा प्रतिपन्नेति, एवं सर्वत्रापि भावना भावनीया ॥ ३६३-३६४ ॥ सम्प्रति प्रनष्टजन्मनक्षत्रपरिज्ञानार्थं करणमाह
समइच्छिएस वासेस कोई पच्छेज्ज जम्मनक्खत्तं । जायस्स वरिससंखं पव्वाणि तिहिं च ठाविज्जा ॥ ३६५ ॥ छित्तूण वरिससंखं पंचसु सेसाणि कुणसु पव्वाणि । तत्तो उवट्टमाणं सोहेज्जा एव तिहिरासिं ॥ ३६६ ॥ अवसेसं सोहिंतो संपयकालमिव आणए सव्वं ।
जं जं इच्छसि किंची अणागयं वावि खेवेणं ॥ ३६७ ॥ 'समतिच्छितेषु' समतिक्रान्तेषु वर्षेषु कोऽपि स्वकीयं जन्मनक्षत्रं पृच्छेत्, यथा कि मम जन्मकाले नक्षत्रमासीदिति, एवं पृष्ठे सति जातस्य सतस्तस्य या वर्षसङ्ख्या अतिक्रान्तास्ताः पर्वाणि तिथीश्च स्थापयेत्, स्थापयित्वा च वर्षसङ्ख्यां ‘पञ्चसु' पंचविषयां छिंद्यात्, किमुक्तं भवति ? पंचवर्षरूपा सङ्ख्या यावच्छेदं सहते तावत् छिद्यात्, छित्त्वा च शेषाणि यानि वर्षाणि तिष्ठन्ति तानि पर्वाणि कुरु, कृत्वा च पूर्वराशिः समस्तोऽप्येकत्र मील्यते ततो वर्तमानपर्वराशिं तिथिराशिं च शोधयेत्, तत्र वर्त्तमानः पर्वराशिः पूर्वपुरुषसम्प्रदायात् चतुरशीतिसंख्यः, वर्तमानः तिथिराशिरष्टरूपः, इत्थम्भूतं च वर्तमानं पर्वराशिं तिथिराशिं च शोधयित्वा येऽवशेषा अंशाः तेभ्यः साम्प्रतकालमिव यद् यद् इच्छसि किञ्चित् तत् सर्वमानयेत्, यदि पुनरागतं ज्ञातुमिच्छेत् ततस्तस्मिन्ननागते वर्तमानं तं पर्वराशिं तिथिराशिं च प्रक्षिपेत्, प्रक्षिप्ताच्चाधिकपर्वराशेर्युगपर्वराशिं शोधयित्वा शेषं पूर्वोपदेशेन कुर्यात्, एष करणगाथाक्षरार्थः, भावना त्वियं-कस्यापि जातस्य नव वर्षाणि त्रयो मासा एकः पक्षः पंच दिवसाः, एष जातस्य कालः, अत्र किं चन्द्रनक्षत्रं सूर्यनक्षत्रं

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466