Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 429
________________ ३९६ ज्योतिष्करण्डकम् याः कलास्ता एकत्र 'संक्षिपेत्' मीलयेत्, ततो या ईप्सिताः-विवक्षिताः कलास्ताभिरूने काले सति 'इदं' वक्ष्यमाणं भवति करणम् ॥ ३६१-२ ॥ तदेवाह छेत्तूण य छेयं तेरसेहिं तेणउए हिं तु संगुणए । अट्ठारसहि सएहिं तीसेहि भइय सेसंमि ॥ ३६३ ॥ एगट्ठीय विभत्ते जे लद्धा ते य होंति पक्खेवा । पन्नरसभागलद्धाय पव्वगा अंसगा य तिही ॥ ३६४ ॥ 'छित्त्वा' अपनीय 'छेदम्' ईप्सितकलारूपं यच्छेषं लभ्यते तत्र त्रयोदशभिः शतैस्त्रिनवत्यधिकैः संगुणयेत्, गुणयित्वा चाष्टादशभिः शतैस्त्रिंशदधिकैर्भजेत्, भक्ते च सति यच्छेषमवतिष्ठते तत् प्रतिराश्यते, प्रतिराश्य च मूलराशौ तस्मिन्नेकषष्ट्या प्रविभक्ते च सति यल्लभ्यते ते 'प्रक्षेपाः' प्रक्षेपणीया राशयो ज्ञातव्याः, तेषु च प्रक्षेपेषु प्रतिराशौ प्रक्षिप्तेषु तस्य पंचदशभिर्भागे हृते यल्लभ्यते तानि पर्वाणि द्रष्टव्यानि, अंशास्तु तिथयः, एष करणगाथाक्षरार्थः, सम्प्रति भावना क्रियते-तत्र यत्पृष्टम्-उदयति सूर्येऽभिजिति एककला चन्द्रमसा भुक्ता स्यात्तत्तस्मिन् दिवसे किं पर्व वर्त्तते ? का वा तिथिः? इति, तत्र सा एका कला त्रयोदशभिः शतैस्त्रिनवत्यधिकैर्गुण्यते, जातानि त्रयोदश शतानि त्रिनवत्यधिकानि १३९३, तेषामष्टादशभिः शतैस्त्रिनवत्यधिकैर्भागो न लभ्यत इति शेषः करणविधिविधीयते, तत्र त्रयोदश शतानि त्रिनवत्यधिकानि प्रतिराश्यन्ते, प्रतिराश्य च मूलराशेरेकषष्ट्या भागो हियते, लब्धा द्वाविंशतिः २२, सा प्रतिराशौ प्रक्षिप्यते, जातः प्रतिराशिश्चतुर्दश शतानि पंचदशोत्तराणि १४१५, तेषां पंचदशभिर्भागो हियते, लब्धा चतुर्नवतिः ९४, शेषास्तिष्ठन्ति पञ्च, आगतं चतुर्नवतितमे पर्वणि पञ्चम्यम्याम्मुदयति सूर्येऽभिजित्कला चन्द्रमसा प्रतिपन्ना भवति । तथा कोऽपि पृच्छति-उत्तिष्ठति सूर्ये यदा धनिष्ठाया एका कला चन्द्रमसा प्रतिपन्ना भवति तदा किं पर्व वर्तते? का वा तिथिः ? इति, तत्राभिजितः कला एकविंशतिः श्रवणनक्षत्रस्य सप्तषष्टिः धनिष्ठाया एका कलेति सर्वसङ्कलनेन् जाता एकोननवतिः ८९, इत ईप्सिता कला धनिष्ठासत्का एका शोध्यते, स्थिता पश्चादष्टाशीतिः ८८, एनां राशि १. अट्ठारस तीसइते पुणो भजे सेसगं रासिं-इति म.वि.गा. ३८८ ॥२. एतद्गाथानन्तरं म.वि.संस्करणंऽधिका गाथाऽपि वर्त्तते - 'जुगभजितं जं सेसं तं अद्धकलाहि' दोहि नायव्वं । पुव्वकरणं करेज्जो कलाय सत्तट्ठिमो भागो ॥३९०॥छा.- युगभक्तं यच्छेवंतदर्द्धकलाभ्यां द्वाभ्यां सातव्यमा पूर्वकरणं कुर्यात् कलायाः सप्तषष्टितमो भागः ॥३९०॥

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466