Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 406
________________ अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग ३७३ चतुर्विंशतितमस्य विष्वग्देवतोपलक्षिता उत्तराषाढाः २४, पंचविंशतितमस्य पुष्यः २५, षड्विंशतितमस्य धनिष्ठा २६, सप्तविंशतितमस्य भगो-भगदेवतोपलक्षिता पूर्वफाल्गुनी २७, अष्टाविंशतितमस्याजः-अजदेवतोपलक्षिताः पूर्वभाद्रपदाः २८, एकोनत्रिंशत्तमस्यार्यमाअर्यमदेवतोपलक्षिता उत्तराफाल्गुन्यः २९, त्रिंशत्तमस्य पूषा-पूषदेवताका रेवती ३०, एकत्रिंशत्तमस्य स्वातिः ३१, द्वात्रिंशत्तमस्याग्निः अग्निदेवतोपलक्षिताः कृत्तिकाः ३२, त्रयस्त्रिंशत्तमस्य मित्रदेवा-मित्रनामा देवो यस्यासौ तथा, अनुराधा इत्यर्थः ३३, चतुस्त्रिंशत्तमस्य रोहिणी ३४, पंचत्रिंशत्तमस्य पूर्वाषाढाः ३५, षट्त्रिंशत्तमस्य पुनर्वसुः ३६, सप्तत्रिंशत्तमस्य विष्वग्देवाः, उत्तराषाढा इत्यर्थः ३७, अष्टात्रिंशत्तमस्याहिः-अहिदेवतोपलक्षिता अश्लेषा ३८, एकोनचत्वारिंशत्तमस्य वसुः-वसुदेवोपलक्षिता धनिष्ठा ३९, चत्वारिंशत्तमस्य भगःभगदेवोपलक्षिताः पूर्वफाल्गुन्यः ४०, एकचत्वारिंशत्तमस्याभिवृद्धि:- अभिवृद्धिकनामदेवोपलक्षिता उत्तरभाद्रपदाः ४१, द्वाचत्वरिंशत्तमस्य हस्तः ४२, त्रिचत्वारिंशत्तमस्याश्व:अश्वदेवाऽश्विनी ४३, चतुश्चत्वारिंशत्तमस्य विशाखा ४४, पंचचत्वारिंशत्तमस्य कृत्तिकाः ४५, षट्चत्वारिंशत्तमस्य ज्येष्ठा ४६, सप्तचत्वारिंशत्तमस्य सोमः-सोमदेवोपलक्षितं मृगशिरोनक्षत्रम् ४७, अष्टचत्वारिंशत्तमस्यायुः-आयुर्देवाः पूर्वाषाढाः ४८, एकोनपंचाशत्तमस्य रविःरविनामकदेवोपलक्षितं पुनर्वसुनक्षत्रं ४९, पंचाशत्तमस्य श्रवणः ५०, एकपंचाशत्तमस्य पितापितृदेवा मघाः ५१, द्विपंचाशत्तमस्य वरुणो-वरुणदेवोपलक्षितं शतभिषग्नक्षत्रं ५२, त्रिपंचाशत्तमस्य भगो-भगदेवा उत्तराफाल्गुन्यः ५३, चतुष्पंचशत्तमस्याभिवृद्धिः-अभिवृद्धिदेवा उत्तरभद्रपदाः ५४, पंचपंचाशत्तमस्य चित्राः ५५, षट्पंचाशत्तमस्याश्व:-अश्वदेवाऽश्विनी ५६, सप्तपंचाशत्तमस्य विशाखाः ५७, अष्टपंचाशत्तमस्याग्नि:-अग्निदेवोपलक्षिताः कृत्तिकाः ५८, एकोनषष्टितमस्य मूलः ५९, षष्टितमस्यार्दा ६० एकषष्टितमस्य विष्वक्, विष्वग्देवा उत्तराषाढाः ६१ द्वाषष्टितमस्य पुष्यः ६२, एतदुपंसहारमाह- 'एए' त्यादि, एतानि नक्षत्राणि युगस्य पूर्वार्द्ध यानि द्वाषष्टिसंख्यानि पर्वाणि तेषु क्रमेण वेदितव्यानि ॥ एवं प्रागुक्तकरणवशाधुगस्योत्तरार्द्धऽपि क्रमेण द्वाषष्टिसंख्येषु पर्वस्ववगन्तव्यानि ॥ ३४०-२ ॥ सम्प्रति कस्मिन् सूर्यमण्डले कि पर्व समाप्तिं गच्छति ? इति निरूपणार्थं करणमाह ગાથાર્થઃ સર્પ ૧ ઘનિષ્ઠા ર અર્યમાં ૩ અભિવૃદ્ધિ ૪ ચિત્રા ૫ અશ્વ ૬ ઈન્દ્રાગ્નિ ૭ રોહિણી ૮ જ્યેષ્ઠા ૯ મૃગશિર ૧૦ વિશ્વક્ ૧૧ અદિતિ ૧૨ શ્રવણ ૧૩ પિતૃદેવા १. सूर्यप्रतक्ष्यनुसारं (पत्र १६०-२) अत्र 'पूर्वफाल्गुन्यः' पाठः आवश्यकः गणितानुसारमुपरोक्तः पाठः समीयीनः इति पु.प्र. पार्श्वभागे ॥

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466