Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 411
________________ ज्योतिष्करण्डकम् भागहरणं, स च स्तोकत्वाद्भागं न प्रयच्छति, ततो नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति गुणकारराशच्छेदराश्योरर्द्धेनापवर्त्तना, जातो गुणकारराशिर्नव शतानि पंचदशोत्तराणि ९१५, छेदराशिर्द्वाषष्टिः धर तत्र पंच नवभिः शतैः पंचदशोत्तरैर्गुण्यते, जातानि पंचचत्वारिंशच्छतानि पंचसप्तत्यधिकानि ४५७५, पुष्यस्य चतुश्चत्वारिंशद्भागा द्वाषष्ट्या गुण्यन्ते, जातानि सप्तविंशतिशतानि अष्टाविंशत्यधिकानि २७२८, एतानि पूर्वराशेः शोध्यन्ते, स्थितानि पश्चादष्टादश शतानि सप्तचत्वारिंशदधिकानि १८४७, तत्र च्छेदराशिद्वषष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पंचाशदधिकानि ४१५४, तैर्भागो ह्रियते, तत्र राशेः स्तोकत्वाद्भागो न लभ्यते, ततो दिवसा आनेतव्याः, तत्र च छेदराशिर्द्वाषष्टिरूपः परिपूर्णनक्षत्रानयनार्थं हि द्वाषष्टिः सप्तषष्ट्या गुणिता, परिपूर्णं च नक्षत्रमिदानीं नायाति ततो मौल एव द्वाषष्टिरूपश्छेदराशिः, केवलं पंचभिः सप्तषष्टिभागैरहोरात्रो भवति, ततो दिवसानयनाय द्वाषष्टिः पंचभिर्गुण्यते, जातानि त्रीणि शतानि दशोत्तराणि, तैर्भागो हियते, लब्धाः पंच दिवसाः ५, शेषं तिष्ठति द्वे शते सप्तनवत्यधिके २९७, ते मुहूर्त्तानयनार्थं त्रिंशता गुण्यन्ते, तत्र गुणकारच्छेदराश्योः शून्येनापवर्त्तना, जातो गुणकारराशिस्त्रिकरूपश्छेदराशिरेकत्रिंशत्, तत्र त्रिकेनोपरितनो राशिर्गुण्यते, जातान्यष्टौ शतान्येकनवत्यधिकानि ८९१, तेषामेकत्रिंशता भागो हियते, लब्धा अष्टाविंशतिर्मुहूर्त्ताः २८ एकस्य च मुहूर्त्तस्य त्रयोविंशतिरेकत्रिंशद्भागाः २३ | ३१, आगतं प्रथमं पर्व अश्लेषा नक्षत्रस्य पंच दिवसान् एकस्य च दिवसस्याष्टाविंशतिं मुहूर्त्तान् एकस्य च मुहूर्त्तस्य त्रयोविंशतिमेकत्रिंशद्भागान् भुक्त्वा समाप्तमिति । तथा यदि चतुर्विंशत्यधिकेन पर्वशतेन पंच सूर्यनक्षत्र पर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ? राशित्रयस्थापना १२४ -५-२, अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशिः पंचकरूपो गुण्यते, जाता दश १०, तेषामाद्येन राशिना भागहरणं, ते च स्तोकत्वाद्भागं न प्रयच्छंति ततो नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति गुणाकारच्छेदराश्योरर्द्धेनापवर्त्तना, जातो गुणकारराशिर्नव शतानि पंचदशोत्तराणि ९१५, छेदराशिर्द्वाषष्टिः, ९२ तत्र नवभिः शतैः पंचदशोत्तरैर्दश गुण्यन्ते, जातान्येकनवतिशतानि पंचाशदधिकानि ९१५०, तेभ्यः सप्तविंशतिशतान्यष्टाविंशत्यधिकानि पुष्यसत्कानि शोध्यन्ते, स्थितानि पश्चाच्चतुष्षष्टिः शतानि द्वाविंशत्यधिकानि ६४२२, छेदराशिर्द्वाषष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पंचाश ३७८

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466