Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 395
________________ ३६२ ज्योतिष्करण्डकम् कोऽपि पृच्छति-युगस्यादौ प्रथमं पर्व कस्मिन्नयने कस्मिन् वा मण्डले समाप्तिमुपयाति ? इति, तत्र प्रथमं पर्व पृष्टमिति वामपार्श्वे पर्वसूचक एककः स्थाप्यते, ततस्तस्यानुश्रेणि दक्षिणपार्वे एकमयनं, तस्य चानुश्रेणि एकं मण्डलं, तस्य च मण्डलस्याधस्ताच्चत्वारः सप्तषष्टिभागाः तेषामधस्तानवैकत्रिंशद्भागाः, एष सर्वो-ऽपि राशिध्रुवराशिः स ईप्सितैनैकेन पर्वणा गुण्यते, एकेन च गुणितं तदेव भवतीति जातस्तावानेव राशिः, ततः अयनं रूपाधिकं च कर्तव्यमिति वचनादयने रूपं प्रक्षिप्यते, मण्डलराशौ चायनं शुध्यति ततः 'दो य होंति भिन्नंमि' इति वचनान् मण्डलराशौ द्वे रूपे प्रक्षिप्येते, तत आगतमिदं-प्रथमं पर्व द्वितीयेऽयने तृतीयस्य मण्डलस्य 'ओमि य गुणकारे अभितरमंडले हवइ आई' इति वचनात् अभ्यन्तरवर्तिनश्चतुर्यु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य नवस्वेकत्रिंशद्भागेषु गतेषु समाप्तिमुपयाति । तथा कोऽपि प्रश्नयति-चतुर्दशं पर्व कतिसंख्येष्वयनेषु मण्डलेषु वा समाप्तिं गच्छतीति, स एव प्रागुक्तो ध्रुवराशिः समस्तोऽपि चतुर्दशभिर्गुण्यते, ततो जातान्ययनानि चतुर्दश मण्डलान्यपि चतुर्दश, चत्वारः सप्तषष्टिभागाश्चतुर्दशभिर्गुणिता जाताः षट्पंचाशत् ५६, नवैकत्रिंशद्भागाश्चतुर्दशभिर्गुणिता जातं षड्विंशत्यधिकं शतं १२६, तत्र षड्विंशत्यधिकस्य शतस्यैकत्रिंशता भागो ह्रियते, लब्धाश्चत्वारः सप्तषष्टिभागाः, द्वौ चूर्णिकाभागो तिष्ठतः, चत्वारश्च सप्तषष्टिभागा उपरितने सप्तषष्टिभागराशौ प्रक्षिप्यन्ते, जाताः षष्टिः सप्तषष्टिभागाः, चतुर्दशभ्यश्च मण्डलेभ्यस्त्रयोदश-भिर्मंडलैस्त्रयोदशभिश्च सप्तषष्टिभागैरयनं शुद्धं, तेन पूर्वाणि चतुर्दशसंख्यान्ययानि युतानि क्रियन्ते, ततोऽयनं रूपाधिकं कर्त्तव्यमिति वचनाद् भूयोऽपि तत्रैकरूपं प्रक्षिप्यते, जातानि षोडशायनानि, सप्तषष्टिभागाश्च चतुष्पंचाशत्संख्या मण्डलराशेरुद्धरितास्तिष्ठन्ति, ते सप्तषष्टिभागराशौ षष्टिरूपे प्रक्षिप्यन्ते, जातं चतुर्दशोत्तरं शतं ११४, तस्य सप्तषष्ट्या भागो हियते, लब्धमेकं मण्डलं, पश्चादवतिष्ठन्ते सप्तचत्वारिंशत् सप्तषष्टिभागास्ततः 'दो य होंति भिन्नंमि, इति वचनान्मण्डलराशौ द्वे रूपे प्रक्षिप्येते, जातानि त्रीणि मण्डलानि, चतुर्दशभिश्चात्र गुणनं कृतं, चतुर्दशराशिश्च यद्यपि युग्मरूपस्तथाऽप्यत्र मण्डलराशेरेकमयनमधिकं प्रविष्टमिति त्रीणि मण्डलान्यभ्यन्तरमण्डलादारभ्य द्रष्टव्यानि, तत आगतं-चतुर्दशं पर्व षोडशस्वयनेषु गतेषु बाह्यमण्डलादितस्तृतीयस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य द्वयोरेकत्रिंशद्भागयोर्गतयोः समाप्तमिति । तथा द्वाषष्टितमपर्वजिज्ञासायां स पूर्वोक्तो ध्रुवराशिभषष्ट्या गुण्यते, जातानि द्वाषष्टिर्मण्डलानि द्वे शते अष्टचत्वारिंशदधिके

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466