Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग
३६३ सप्तषष्टिभागानां २४८, पंच शतान्यष्टपंचाशदधिकानि एकत्रिंशद्भागानां ५५८, तेषामेकत्रिंशता भागे हृते लब्धाः परिपूर्णा अष्टादश सप्तषष्टिभागास्ते उपरितने सप्तषष्टिभागराशौ प्रक्षिप्यन्ते, जाते द्वे शते षट्षष्ट्यधिके २६६, उपरि च द्वाषष्टिर्मण्डलानि, तेभ्यो द्विपंचाशता मण्डलैर्द्विपंचाशता च एकस्य मण्डलस्य सप्तषष्टिभागैश्चत्वार्ययनानि लब्धानि, तान्ययनराशौ प्रक्षिप्यन्ते, जातानि षट्षष्ट्ययनानि ६६, पश्चादवतिष्ठन्ते नव मण्डलानि पंचदश च सप्तषष्टिभागानां मण्डलस्य, तत्र पंचदश सप्तषष्टिभागाः सप्तषष्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाते द्वे शते एकाशीत्यधिके २८१, तयोः सप्तषष्ट्या भागे हृते लब्धानि चत्वारि मण्डलानि, शेषा अवतिष्ठन्ते त्रयोदश सप्तषष्टिभागाः, मण्डलानि च मण्डलराशौ प्रक्षिप्यन्ते, जातानि त्रयोदश मण्डलानि, त्रयोदशभिश्च मण्डलैस्त्रयोदशभिश्च सप्तषष्टिभागैः परिपूर्णमेकमयनं लब्धमिति तदयनराशौ प्रक्षिप्यते, जातानि सप्तषष्टिरयनानि 'तत्थ निरंसंमि रूवजुय'मिति वचनात् अयनराशौ रूपं न प्रक्षिप्यते, केवलं 'कसिणंमि होइ रूवं पक्खेवो' इति वचनात् मण्डलस्थाने एकं रूपं न्यस्यते द्वाषष्ट्या चात्र गुणाकारः कृतो द्वाषष्ठिरूपश्च राशियुग्मः, यान्मपि य चत्वार्ययनानि प्रविष्टानि तान्यपि युग्मरूपाणि, रूपं चात्राधिकमेकं न प्रक्षिप्तमिति पंचममयनं तत्स्थाने द्रष्टव्यमिति बाह्यमण्डलमादि द्रष्टव्यं, तत आगतं-द्वाषष्टितमं पर्व सप्तषष्ट्ययनेषु परिपूर्णेषु जातेषु बाह्ये मण्डले प्रथमरूपे परिसमाप्ते समाप्तिं गतमिति । एवं सर्वाण्यपि पर्वाणि भावनीयानि । केवलं मूलटीकायां पर्वायनमण्डल-प्रस्तारोऽक्षरताडितः कृत इत्यस्माभिरपि विनेयजनसुखावबोधाय स क्रियते-प्रथमं पर्व द्वितीयेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य चतुर्षु सप्तषष्टिभागेषु एकस्य च सप्तषष्टि-भागस्य नवस्वेकत्रिंशद्भागेषु गतेषु समाप्तमिति ध्रुवराशिं कृत्वा पर्वानयनमण्डलेषु प्रत्येकमेकैकरूपं प्रक्षिप्तव्यं, भागेषु च तावत्संख्याका भागाः, मण्डलेषु चायनक्षेत्रे परिपूर्णे त्रयोदश मण्डलानि एकस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागा इत्येतावत्प्रमाणं समयक्षेत्रं, ततः शोधयित्वाऽयनमयनराशौ प्रक्षिप्तव्यम्, अनेन क्रमेण वक्ष्यमाणः प्रस्तारः सम्यक् परिभावनीयः, स च प्रस्तारोऽयंप्रथमं पर्व द्वितीयेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य चतुर्षु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य नवस्वेकत्रिंशद्भागेषु गतेषु समाप्तं, द्वितीयं पर्व तृतीयेऽयने चतुर्थमण्डले चतुर्थस्य मण्डलस्याष्टसु सप्तष्टष्टिभागेषु एकस्य सप्तषष्टिभागस्याष्टादशस्वेकत्रिंशद्भागेषु, तृतीयं पर्व चतुर्थेऽयने पञ्चमे मण्डले पंचमस्य मण्डलस्य द्वादशसु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य सप्तविंशतावेकत्रिंशद्भागेषु, चतुर्थं पर्व पंचमेऽयने षष्ठे मण्डले षष्ठस्य

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466