SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग ३६३ सप्तषष्टिभागानां २४८, पंच शतान्यष्टपंचाशदधिकानि एकत्रिंशद्भागानां ५५८, तेषामेकत्रिंशता भागे हृते लब्धाः परिपूर्णा अष्टादश सप्तषष्टिभागास्ते उपरितने सप्तषष्टिभागराशौ प्रक्षिप्यन्ते, जाते द्वे शते षट्षष्ट्यधिके २६६, उपरि च द्वाषष्टिर्मण्डलानि, तेभ्यो द्विपंचाशता मण्डलैर्द्विपंचाशता च एकस्य मण्डलस्य सप्तषष्टिभागैश्चत्वार्ययनानि लब्धानि, तान्ययनराशौ प्रक्षिप्यन्ते, जातानि षट्षष्ट्ययनानि ६६, पश्चादवतिष्ठन्ते नव मण्डलानि पंचदश च सप्तषष्टिभागानां मण्डलस्य, तत्र पंचदश सप्तषष्टिभागाः सप्तषष्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाते द्वे शते एकाशीत्यधिके २८१, तयोः सप्तषष्ट्या भागे हृते लब्धानि चत्वारि मण्डलानि, शेषा अवतिष्ठन्ते त्रयोदश सप्तषष्टिभागाः, मण्डलानि च मण्डलराशौ प्रक्षिप्यन्ते, जातानि त्रयोदश मण्डलानि, त्रयोदशभिश्च मण्डलैस्त्रयोदशभिश्च सप्तषष्टिभागैः परिपूर्णमेकमयनं लब्धमिति तदयनराशौ प्रक्षिप्यते, जातानि सप्तषष्टिरयनानि 'तत्थ निरंसंमि रूवजुय'मिति वचनात् अयनराशौ रूपं न प्रक्षिप्यते, केवलं 'कसिणंमि होइ रूवं पक्खेवो' इति वचनात् मण्डलस्थाने एकं रूपं न्यस्यते द्वाषष्ट्या चात्र गुणाकारः कृतो द्वाषष्ठिरूपश्च राशियुग्मः, यान्मपि य चत्वार्ययनानि प्रविष्टानि तान्यपि युग्मरूपाणि, रूपं चात्राधिकमेकं न प्रक्षिप्तमिति पंचममयनं तत्स्थाने द्रष्टव्यमिति बाह्यमण्डलमादि द्रष्टव्यं, तत आगतं-द्वाषष्टितमं पर्व सप्तषष्ट्ययनेषु परिपूर्णेषु जातेषु बाह्ये मण्डले प्रथमरूपे परिसमाप्ते समाप्तिं गतमिति । एवं सर्वाण्यपि पर्वाणि भावनीयानि । केवलं मूलटीकायां पर्वायनमण्डल-प्रस्तारोऽक्षरताडितः कृत इत्यस्माभिरपि विनेयजनसुखावबोधाय स क्रियते-प्रथमं पर्व द्वितीयेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य चतुर्षु सप्तषष्टिभागेषु एकस्य च सप्तषष्टि-भागस्य नवस्वेकत्रिंशद्भागेषु गतेषु समाप्तमिति ध्रुवराशिं कृत्वा पर्वानयनमण्डलेषु प्रत्येकमेकैकरूपं प्रक्षिप्तव्यं, भागेषु च तावत्संख्याका भागाः, मण्डलेषु चायनक्षेत्रे परिपूर्णे त्रयोदश मण्डलानि एकस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागा इत्येतावत्प्रमाणं समयक्षेत्रं, ततः शोधयित्वाऽयनमयनराशौ प्रक्षिप्तव्यम्, अनेन क्रमेण वक्ष्यमाणः प्रस्तारः सम्यक् परिभावनीयः, स च प्रस्तारोऽयंप्रथमं पर्व द्वितीयेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य चतुर्षु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य नवस्वेकत्रिंशद्भागेषु गतेषु समाप्तं, द्वितीयं पर्व तृतीयेऽयने चतुर्थमण्डले चतुर्थस्य मण्डलस्याष्टसु सप्तष्टष्टिभागेषु एकस्य सप्तषष्टिभागस्याष्टादशस्वेकत्रिंशद्भागेषु, तृतीयं पर्व चतुर्थेऽयने पञ्चमे मण्डले पंचमस्य मण्डलस्य द्वादशसु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य सप्तविंशतावेकत्रिंशद्भागेषु, चतुर्थं पर्व पंचमेऽयने षष्ठे मण्डले षष्ठस्य
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy