________________
३४२
ज्योतिष्करण्डकम् पञ्चदशभिर्गुण्यन्ते, जातं विंशत्युत्तरं शतम् १२०, अष्टानां च पर्वणामुपरि तृतीयायां पृष्टमिति त्रयः प्रक्षिप्यन्ते, जातं त्रयोविंशत्यधिकं शतम् १२३, अष्टसु पर्वस्वेकोऽवमरात्र इत्येकः शोध्यते, जातं पश्चाद् द्वाविशं शतं १२२, तस्य त्र्यशीत्यधिकेन शतेन भागो हियते, तच्चाल्पत्वाद् भागं न प्रयच्छति, ततस्तद् द्वाभ्यां गुण्यते, जाते द्वे शते चतुश्चत्वारिंशदधिके २४४, तयोरेकषष्ट्या भागे हृते लब्धाश्चत्वारः, तदानीं च दक्षिणमयनं प्रवर्तते ततश्चतुरो मुहूर्तान् सर्वाभ्यन्तरमण्डलगतदिवसपरिमाणादष्टादशमुहूर्तरूपादपनीय मण्डलगतरात्रिपरिमाणे द्वादशमुहूर्तरूपे प्रक्षिपेत्, तत आगतं-तदानीं चतुर्दशमुहूर्तप्रमाणो दिवसः षोडशमुहूर्तपरिमाणा रात्रिरिति । तथा युगस्यादौ षोडशपतिक्रमे षष्ट्यां केनापि पृष्टं, यथा-किंप्रमाणोऽद्य दिवसः किंप्रमाणा वा रात्रिः ? इति, तत्र षोडश स्थाप्यन्ते, तानि पञ्चदशभिर्गुण्यन्ते, जाते द्वे शते चत्वारिंशदधिके २४०, षोडशपर्वणामुपरि षष्ठ्यां पृष्टमिति षट् प्रक्षिप्यन्ते, जाते द्वे शते षट्चत्वारिंदशधिके २४६, षोडशपर्वमध्ये चावमरात्रद्वयमतिक्रान्तमिति द्वे रूपे शोध्येते, स्थिते पश्चाद् द्वे शते चतुश्चत्वारिंशदधिके २४४, तयोस्त्र्यशीत्यधिकेन शतेन भागहरणं, लब्ध एक: एतेन दक्षिणमयनं लब्धं, शेषा तिष्ठत्येकषष्टिः ६१, सा द्वाभ्यां गुण्यते, जातं द्वाविशं शतं १२२, तस्यैकषष्ट्या भागे हृते लब्धौ द्वौ मुहूत्र्ती, तदानीं च दक्षिणायनमतिक्रान्तमुत्तरायणं वर्त्तते, ततः सर्वबाह्यमण्डलगतरात्रिपरिमाणादष्टादशमुहूर्तरूपात्तौ द्वौ मुहूर्तावपनीय सर्वबाह्यमण्डलगतदिवसपरिमाणे द्वादशमुहूर्तरूपे प्रक्षिप्येते, तत आगतं-चतुर्दशमुहूर्त्तप्रमाणो दिवसः षोडशमुहूर्तप्रमाणा रात्रिः, एवं सर्वत्र भावनीयम् ॥ ३११-३१३ ॥
॥ इति श्रीमलयगिरिविरचितायां ज्योतिष्करण्डकटीकायां
दिवसवृद्धयपवृद्धिप्रतिपादकमष्टादशं प्राभृतं ॥ ગાથાર્થ : પર્વને ૧૫ ગુણ કરવું એમાં તિથિઓ ઉમેરવી તથા અવમાત્ર બાદ કરી ૧૮૩ થી ભાગ કરતાં જે શેષ રહે તે જાણવું . ૩૧૧ તેને બમણું કરવું અને ૬૦ થી ભાગ કરતાં ત્યાં જે આવે તે દક્ષિણાયનમાં દિવસમાંથી બાદ કરવું અને રાત્રિમાં ઉમેરવું. અને તે જ ઉત્તરાયણમાં દિવસમાં ઉમેરો કરવો અને રાત્રિમાંથી બાદ કરવું. આ रीत. रात्रि-दिवस- परिभा! . ॥ ३१२-१३ ॥
ટીકાર્ય : યુગમાં વિવક્ષિત દિવસથી પહેલાં જે પર્વ પસાર થયું તેને ૧૫ ગુણ કરવું. પછી તેના ઉપર જે તિથિઓ વિવક્ષિત દિવસના પહેલાં પસાર થઈ તે ત્યાં ઉમેરવી. હવે એમાંથી પ્રતિદિવસ 5 ભાગ હાનિથી જે અવમરાત્રો થયા તે એમાંથી બાદ કરવા