Book Title: Jyotish Karandakam
Author(s): Parshvaratnasagar
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 382
________________ अधिकार ओगणीसमो अमावस्या - पूर्णिमा - चन्द्रनक्षत्रयोग ३४९ किमुक्तं भवति ? एकोनषष्ट्यधिकेन शतेनाभिजिदादीनि उत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुध्यन्ति, एवमुत्तरात्रापि भावनीयं तथा त्रिषु नवोत्तरेषु 'रोहिणिका' रोहिणीपर्यन्तानि शुध्यन्ति, तथा त्रिषु 'नवनवतेषु' नवनवत्यधिकेषु शतेषु शोधितेषु 'पुनर्वसु ' पुनर्वसुपर्यन्तं नक्षत्रजातं शुध्यति, तथैकोनपंचाशदधिकानि पंच शतानि प्राप्य फाल्गुन्यः - उत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुध्यन्ति, 'विशाखासु' विशाखापर्यन्तेषु नक्षत्रेष्वेकोनसप्तत्यधिकानि षट् शतानि ६६९ शोध्यानि, मूलपर्यन्ते नक्षत्रजाते सप्त शतानि चतुश्चत्वारिंशदधिकानि ७४४ शोध्यानि, 'उत्तराषाढानाम्' उत्तराषाढापर्यन्तानां नक्षत्राणां शोधनकमष्टौ शतान्येकोनविंशत्यधिकानि ८१९, सर्वेष्वपि च शोधनकेषु उपर्यभिजितो नक्षत्रस्य सम्बन्धिनो मुहूर्त्तस्य द्वाषष्टिभागाश्चतुर्विंशतिः षट्षष्टिश्च चूर्णिकाभागाः एकस्य द्वाषष्टिभागस्य सप्तषष्टिभागाः शोधनीयाः ॥३२० ०-३॥ - एयाइं सोहइत्ता जं सेसं तं हवेज्ज नक्खत्तं । एत्थं करेइ उडुवइ सूरेण समं अमावासं ॥ ३२४ ॥ 'एतानि' अनन्तरोदितानि शोधनकानि यथायोगं शोधयित्वा यच्छेषमवतिष्ठते तद् भवति नक्षत्रम्, एतस्मिंश्च नक्षत्रे करोति सूर्येण सममुडुपतिरमावास्यामिति करणगाथासमूहाक्षरार्थः, भावना त्वियं केनापि पृच्छ्यते - युगस्यादौ प्रथमाऽमावास्या केन नक्षत्रेणोपेता समाप्तिमुपैति ? इति तत्र पूर्वोदितस्वरूपोऽवधार्यराशिः षट्षष्टिर्मुहूर्त्ताः पंच द्वाषष्टिभागा एकश्च सप्तषष्टिभागः, अस्मात् द्वाविंशतिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य षट्चत्वारिंशद् द्वाषष्टिभागा इत्येवंप्रमाणं पुनर्वसुशोधनकं शोध्यते, तत्र षट्षष्टिमुहूर्तेभ्यो द्वाविंशतिर्मुहूर्त्ताः शुद्धाः, स्थिताः पश्चाच्चतुश्चत्वारिंशत् ४४, तेभ्य एकं मुहूर्त्तमपकृष्य तस्य द्वाषष्टिभागाः कृतास्ते द्वाषष्टिभागमध्ये प्रक्षिप्यन्ते, जाताः सप्तषष्टिः, तेभ्यः षट्चत्वारिंशत् शुद्धाः, शेषास्तिष्ठन्त्येकविंशतिः, त्रिचत्वारिंशतो मुहूर्तेभ्यस्त्रिशता मुहूर्तेः पुष्यः शुद्धः, स्थिताः पश्चात्त्रयोदश मुहूर्त्ताः, अश्लेषानक्षत्रं चार्धक्षेत्रमिति पंचदशमुहूर्त्तप्रमाणं, तत इदमागतं-अश्लेषानक्षत्रस्यैकस्मिन् मुहूर्त्ते चत्वारिंशति च मुहूर्त्तस्य द्वाषष्टिभागेषु एकस्य च - १. म.वि. संस्करणे एतद्गाथानन्तरमधिका गाथा वर्त्तते – 'जइ पुण्णमासि इच्छसि णाउं जे कम्हि होज्ज रिक्खे ? ति । सो च्चेव य अवहारो थावेतव्वो हवति पव्व ॥ ३४७ ॥ (छा.) यदि पूर्णमासीच्छे र्ज्ञातुं ये कस्मिन्भवेद् ऋक्षे ? इति । स चैव चापहारः स्थाप्यो भवति पर्वः ॥ ३४७ ॥ अनु. - भे पूएभासी भएावा मांगे छे કે તે કયા નક્ષત્રમાં થાય ? તો તે જ અપહાર સ્થાપેલો પર્વ બને છે.

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466