________________
जैनेतर परम्परामों में अहिंसा
१७ तीसरा पक्ष-जिस व्यक्ति के मन में यह कामना नहीं होती है कि वह पशुओं को बांधे या मारे तथा किसी प्रकार का कष्ट दे वह सभी जीवों का हितैषी होता है और उसे अत्यधिक सुख की
यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञश्च भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥३६॥ प्रोषध्यः पशवो वृक्षास्तिर्गवः पक्षिणस्तथा । यज्ञार्थ निधनं प्राप्ताः प्राप्नुवन्त्युत्सृती: पुन: ॥४०॥ मधुपर्के च यज्ञे च पितृदेवतकर्मणि । अत्रैव पशवो हिंस्या नान्यत्रेत्यनवीन्मनुः ॥४१॥ एष्वर्थेषु पन्हिसन्वेदतत्त्वार्थविद् द्विजः । आत्मानं च पशु चैव गमयत्युत्तमां गतिम् ॥४२॥ गृहे गुरावरण्ये वा निवसन्नात्मवान्द्विजः । नावेदविहितां हिंसामापद्यपि समाचरेत् ॥४३॥ या वेदविहिता हिंसा नियतास्मिंश्चराचरे। अहिंसामेव तां विद्याद्वेदाद्धर्मों हि निर्बभौ ॥४४॥ योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया। सजीवंश्च मृतश्चैव न क्वचित्सुखमेधते ॥४५॥ यो बन्धनवधक्लेशान्प्राणिनां न चिकीर्षति । स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥४६॥ यद्धयायति यत्कुरुते धृति बध्नाति यत्र च। तदवाप्नोत्ययलेन यो हिनस्ति न किञ्चन ॥४७॥ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवध : स्वर्गस्तस्मान्मांसं विवर्जयेत् ॥४८॥ समुत्पत्ति च मांसस्य वधबन्धी च देहिनाम् । प्रसमीक्ष्य निवतेत सर्वमांसस्य भक्षणात् ॥४६॥ न भक्षयति यो मांसं विधि हित्वा पिशाचवत् । स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥५०॥ अनुमन्ता विशसिता निहन्ता क्रयविक्रयी। संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥५१॥ स्वमांसं परमांसेन यो वर्धयितुमिच्छति । अनभ्य» पितॄन्देवांस्ततोऽन्यो नास्त्यपुण्यकृत् ॥५२॥ मनुस्मृति, प्र० ५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org