________________
20
छन्दोदर्शनम
स प्रकेतुना ज्योतिषा प्रभास्वा
नग्निः सोऽप्रकेतो विश्वस्य मूर्धनि ॥४॥ पदपाठ :- अग्निः । अयं । वश्वानरः । नः । आत्मा ।
हृदयं । अन्तरिति । अमृतः । प्रऽचेतनः ॥ सः। प्रऽकेतुना । ज्योतिषा । प्रऽभास्वान् । अग्निः । सः । अप्रऽकेतः । विश्वस्य । मूर्धनि ।।
This Agni is Vaiśvānara. He is our Ātmā, the soul within the heart. He is immortal and is knowledge itself. He shines with the light of intellect. He is Agni who is beyond vision and all supreme.
अन्वयभाष्यम्। अयं अग्निः विश्वषां अस्माकं नराणां अन्तर्यामी वैश्वानरः आत्मा प्रत्यग्रूपः हृदय्यः हृदयसम्बन्धी आन्तर्यः अमृतः मरण-विकारादिरहितः दिव्यः प्रचेतन: चेतनात्मा प्रसिद्धो हि, सः प्रकेतुना प्रज्ञानेन ज्योतिषा प्रभास्वान् अन्तर्बहिश्च प्रकर्षण प्रकाशकः, सः परमः परोक्षसिद्धः अग्निः विश्वस्य अस्य सर्वस्यापि जगत: मूर्धनि बहि : व्योमनि अन्तः शरीरे शीर्ष च स्वेन चेतनेन तेजसा च व्याप्तः, तथाऽपि अप्रकेतः ज्ञातुं अशक्यः ज्ञानादिकारणीभूतस्य बाह्यलिङ्गादेरभावात्, अत एव सूक्ष्मतमत्वात् अन्तरात्मत्वाच्चेति, सोऽयं बुध्यादीन्द्रियैरमेयः इति तदभिप्रायः ॥
COMMENTARY-SUMMARY TRANSLATION This Agni is within all of us human beings, as Vaišvånara. He is our Atma who is in the heart. He is immortal, divine, indestructible. He is known as shining with knowledge. He shines without also. He is above all and transcendant. Externally in the sky and internally in the body, and especially in the head, he is full of light of knowledge. Even so he is beyond intellectual knowledge as there is nothing external indicating him-he being very subtle and innermost.
पञ्चमी ऋक् । अग्निरयं भूतेषूदितो ज्योतिषा भूतं योऽनु ज्वलति स्वं प्रतिमानम् ॥ यो भूतमभ्येति पचन्नुत दहन त्स इग्निभूत आत्मा ज्योतिष्मान् परि ॥५॥