________________
छन्दोदर्शनम् .
403 पदपाठः - यत् । इन्द्रियैः । कर्मणा । दुःऽकृतम् । मे।
यत् । कृतम् । पत्ऽभ्याम् । दुःऽगतम् । मम । एनः ॥ पाणिभ्याम् । यत् । दुःऽगृभीतम् । गृहीतम् ।
ताः । आपः । देव्यः । स्वम् । ईम् । माम् । पुनन्तु ॥ May those Water-deities purify me who is their own, from sins committed by my senses and from actions of going astray with my legs, and from my acts of acceptance by hand of unworthy things.
अन्वयभाष्यम् । इन्द्रियैः कर्मेन्द्रियैः तथा तेषां कर्मणा च यत् दुष्कृतं दुष्टं कर्म कृतं आचरितं, तथा पद्भयां पादाभ्यां यत् दुर्गतं दुष्टं गमनागमनादिकं इतस्ततः निरर्थकं दुरुद्देशकृतं वा स्यात्, तथैव पाणिभयां यत् खलु दुर्गृहीतं दुष्प्रतिग्रहादिकं स्वीकृतं भवेत्, अस्ति वा तेन च मम निष्पन्नं यत् एनः दोषादिकं कल्मषजातं तस्मात् सर्वस्मादपि दुरितादिदोषात् ता: आपो देव्यः मां इमं पुनन्तु इति ॥
COMMENTARY-SUMMARY TRANSLATION I might have performed sinful actions with the help of my senses and by their movements. I might have gone wrong or come off the right way. My hands might have received unworthy things. All these sins might have been committed by me. May the Water-deities purify me of all such sins and errors.
अष्टमी ऋक | यद् वा श्रोत्रेण दुःश्रुतं श्रुतं मे यन्मे त्वचा सँस्पृष्टं दुष्टमेनः ॥ चक्षुषा दृष्टै दुर्दृष्टं यदेन
स्ता आपो देव्यः स्वमीं मां पुनन्तु ॥ ८ ॥ पदपाठः – यत् । वा । श्रोत्रेण । दुःऽश्रुतम् । श्रुतम् । मे ।
यत् । मे । त्वचा । सम्ऽस्पृष्टम् । दुष्टम् । एनः ॥ चक्षुषा । दृष्टम् । दुःऽदृष्टम् । यत् । एनः । ताः । आपः । देव्यः। स्वम् । ईम् । माम् । पुनन्तु ॥