Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 483
________________ छन्दोदर्शनम् 453 व्याधिनाऽनशितुं दधे, तमाचार्यजायोवाच ब्रह्मचारिन् अशान किं नु नाश्नासीति, स होवाच बहव इमेऽस्मिन् पुरुषे कामाः नानात्ययाः व्याधिभिः परिपूर्णोऽस्मि नाशिष्यामीति" (छां.उ. ४-१०-३)। अभक्षणरूपं अनशनं तपोव्रतरूपेण अनुष्ठितमनुश्रूयते, तच्च मानसिक व्याधिनिवृत्तये कारणीभूतं ज्ञानोदयादिसाधनीभूतं चेति प्रतीयते, तथा अन्यत्रापि तदनशनं यमस्यापि संयमने शक्तं तीक्ष्णं शस्त्रमिव संवृत्तं दृश्यते, “तिस्रो रात्रीर्यदवात्सीगृहे मे अनश्नन् ब्रह्मन् अतिथिनमस्यः ॥ नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व" ( कठोप. १-९) इति ॥ अत एव तस्य अनशनस्यैव परमतप:स्वरूपत्वं प्रतिज्ञायते । “ तप इति तपो नानशनात् परं तदुर्धर्षं तद्दुराधर्षम् | तस्मात् तपः परमं वदन्ति " (ना. उ. २१-२) इति च || तत्र अशनानशनयोः तयोः सर्वेन्द्रियाणां आत्मन्यन्तर्मुखेन उपनयन-संयमन-संशोधनादिसत्त्वसम्पन्नयोः संविधानं तदनुष्ठानं च वैदिके यज्ञादौ प्राचामृषीणामाचार्याणां च आचारपरम्परागतं इदानीमपि दरीदृश्यते तत्सदाचरणम, यज्ञीयादि व्रतादेशे तयोरुभयोरपि अशनानशनयोः सत्त्वं प्रतीयते समानरूपेण, यज्ञीये व्रते-- " अथातोऽशनानशनस्यैव" (श. ब्रा. १-१-१) इति तदपदेशात् ॥ तत्र अशनरूपं व्रतम्, “पयो वै ब्राह्मणस्य व्रतम् " (तै.) इति ॥ "एकं स्तनं व्रतं कुर्वीत द्विस्तनं त्रिस्तनं व्रतम्" इत्यादि विधानं विद्यते पयसः अशने, “कृच्छ्रातिकृच्छू पयसा दिवसानेकविंशतिम्"(म. स्मृ.) इति मनुः ॥ एवं कृच्छादिवते दुग्धस्य अशनं विहितम् ॥ “अथ पार्वणस्थालीपाकः तस्य दर्शपूर्णमासाभ्यामुपवास: " ( आ. गृ. सू.) इति उपवासविधान तदनशनरूपम् ॥ त्रेताग्नीनां च अग्निहोत्रिणां दर्शपूर्णमासेष्टौ तबतादेशे तु- “यदशितमनशितमिव (भवति) तदश्नीयात् " (श. ब्रा. १.१) इति || तदनशनानुविधानं च अशनसहक्लप्तम्, तन्निवचनमपि अन्यत्र अनुश्रूयते - "अपोऽश्नाति । तन्नेवाशितं नेवानशितम्” (ते. ब्रा.) इति || “ अब्भक्षो वायुभक्षश्च" (म.स्मृ.) इति तदनुवचन उद्देशान्तरेण विहितं दृश्यते ॥ एवमेव उपनयनादिव्रतेऽपि तदशनं शास्त्रतो नियमितं ब्रह्मचारिणां कृते, " अक्षारलवणाशी स्यात्” ( आ. गृ. सू.) इति ॥ तथा " मधु-मांस-उच्छिष्ट-ताम्बूलादीनामनशनं च विहितम् " | तदेतद् विवाहवते वधूवरयोरुभयोरपि समानमेव, “अक्षारलवणाशिनौ अधःशायिनौ ब्रह्मचारिणौ स्याताम् " ( आ. गृ. सू.) इति ॥ ___ तथैव आयुर्वदेऽपि आयुरारोग्यादिसिध्यर्थं अशनानशनयोः तयोरुभयोरपि समाश्रयणमुपदिश्यते, “हिताशी स्यान्मिताशी स्यात् कालभोजी जितेन्द्रियः । पश्यन् हि सकलान् रोगान् बुद्धिमान् विषमाशनात्" (च. सं.) इति ॥ तदेतत् सत्त्वशुद्धिद्वारा ज्ञानोदयेऽपि समानमेव भवितुमर्हति । “हितमितमेध्याशिनो हि ब्रह्मणि विविदिषा भवति" (ब्र. सू. शा. भाष्ये भामती) इति || एवं ज्वरादिरोगनिवृत्तये चिकित्सारूपेण अनशनं प्रशस्यते, “ ज्वरादौ लङ्घनं प्रोक्तम्" इति, "लङ्वन परमौषधम्" इति च || तथैव यज्ञे योगे ज्ञानोपनादौ च पात्रतादि

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524