Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 482
________________ 452 छन्दोदर्शनम पदम् । पश्यामि । दर्शतम् । सम् । परि'। इतम् । तत् । परमम् । ज्योतिः। विश्वस्य । दर्शयत् ।। अन्वयभाष्यम् । एतन्मन्त्रार्थः पूर्वं व्याख्यातः ॥ अस्मिन् सूक्ते विशेषतः प्रत्येकस्मिन् “ तपसा-उपवसन् ” इति उपवाससञ्ज्ञकं अनशनरूपं यत् तपः दर्शितं तदेव किञ्चिद् विमृश्यते ॥ अस्मिन् लोके सर्वेषामपि प्राणभृतां " अशनं-अनशनं" इति च नियते सदा प्रवृत्ते द्वे वृत्ती भवतः, तत्र सर्वेषु विषयेषु व्याप्तिरूपा प्रवृत्तिरेव अशनं तथा तेभ्यो विषयेभ्य: असद्वस्तुसम्बद्धेभ्य: अनिष्टेभ्यश्च निवृत्तिरेव अनशनम् || " अशु व्याप्तौ” (१२६४ ) इति धात्वर्थयोगात् ॥ तथैव बाह्येषु तेषु विषयेषु अप्रवृत्तिरपि अनशनरूपैव भवितुमर्हति, या तु औदासीन्यस्थितिरिति प्रसिद्धा || "नैनमहो अश्नोति" (ऋ. मं. ३-५९-२)" न तमश्नोति कश्चन" (ऋ.मं. १०-६२-९) इति च तदनुश्रवणम् || एवमेव " अश् भक्षणे" (१५२४) इति धात्वर्थात् अशनं नाम भक्षणं, तथा अदनीयं अन्नं च भवितुमर्हति | " सर्वं स पूतमश्नाति स्वदितं मातरिश्वना" (ऋ.मं. ९-६७-३१) इति तदर्शनम् ॥ " अद्यतेऽत्ति च भूतानि | तस्मादन्नं तदुच्यते" (बृ. उ. २-२) इति च || "न तमश्नोति कश्चन न तदश्नाति किञ्चन " इति तयोरुभयोर्योगेन निदर्शनम् ॥ अत्र अनशन नाम भक्षणात् निवृत्तिरूपं अभुक्तिरूपं च भवितुमर्हति ॥ एतत्सत्त्वद्वयसहिते एते उभे वृत्ती इति शास्त्रसङ्केतः, एतद् वृत्तिद्वयमभिलक्ष्यैव तस्य चेतनात्मन: पुरुषस्य सर्वेषु पुरुषेषु अन्तरनुप्रवेशः अनुश्रूयते, “ त्रिपादूध्वं उदैत् पुरुषः पादोऽस्येहाभवत् पुनः । ततो विष्वङ् व्यक्रामत् साशनानशने अभि" (ऋ.मं. १०-९०-४) इति ॥ अत्र तादृशवृत्तिद्वयसहिते ते “साशनानशने" स्थावरजङ्गमात्मके अचेतन-सचेतनरूपे च इति तदर्थः सम्पद्यते | अत एव सामवेदे आथर्वणीये च अशनानशनयोरेव अनुश्रावणं इति प्रतीयते ॥ " ततो विष्वङ् व्यकामदशनानशने अभि" ( सा. आ. कां. ६-४-४) (६१८) इति || “ततो व्यकामद् विश्वङ् अशनानशने अनु" (अ. सं. १९-६-२) इति ॥ " पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत् " (बृ.उ.) इति च ॥ एतस्मिन् अर्थे औपनिषदं ब्राह्मणानुवचनमपि भवति, “ सोऽद्य एव पुरुषं समुद्धृत्यामूर्छयत् । ता एता देवताः सृष्टा अस्मिन् महत्यर्णवे प्रापतन् , तं अशनापिपासाभ्यामन्ववार्जयत् | ता एनमब्रुवन् आयतनं नः प्रजानीहीति यस्मिन् प्रतिष्ठिता अन्नमदामेति (ऐ.उ. २-१-५)। तत्र पुरुषाणां सर्वेषामपि प्राणभृतां अशनापिपासात्मक वृत्तिसत्त्वं दर्शयन्ति || तद्वदेव अनशनमपि अनुश्रूयते उपकोसलविद्यायां उपनिषदि प्रपञ्चितम्, “स ह

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524