Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 498
________________ 468 छन्दोदर्शनम् अश्विनौ तौ पुरुष नात्यौ समौ तावग्नीषोमै मृळयतां स्वं विश्वम् ॥ ८ ॥ पदपाठः अग्निः । दिव्यः । ज्योति॑षा । अभि । अश्नोति । विश्व॑म् । सोम॑ः । स्वेन॑ । रसैन । दिव्येन । आत्मना ॥ अश्विनौ । तौ । पुरुषौ । नात्यौ । समौ । तौ । अग्नीषोमै । मृळयताम् । स्वम् । विश्व॑म् ॥ - The celestial Agni pervades the universe with light. Soma pervades the universe with his essences and the celestial soul. Those are the twin Asvins, the twin Purushas. They are truly in existence and are similar. May Agni and Soma bless the universe of theirs. अन्वयभाष्यम् । सोऽयं अग्निः दिव्यः आदित्यात्मकः सवितृप्रसूतत्वात्, ज्योतिषा तेजः किरणमुखेन प्राणसत्त्वेन विश्वं एतत् जगत् अभि अभितः सर्वतः अश्नोति व्याप्नोति, सोमः दिव्य एव स्वयं दिव्येन स्वेन रसेन आत्मना सचेतनेन मनःसत्त्वेन विश्व अश्नोति, अत एव तौ " अश्विनौ " इत्याख्यायेते, तौ मिथः संसक्तौ उभावपि एकात्मानौ समौ समानौ व्याप्त्या स्वरूपादिवृत्त्या च सिद्धौ पुरुषौ पुरुषसत्त्वौ सर्वेष्वपि पुरुषेषु प्राणभृत्सु अन्तः प्रतिष्ठितत्वात्, तथा प्राणमन:सत्त्वात्मकौ तौ अश्विनौ नाम्ना स्वरूपेण व्यापकत्वसिद्धेन तेजोरससत्त्वेन सिद्धौ, नासत्यौ तन्नामानौ सत्यात्मकौ च भवतः | अत्रेदं यास्कनिरुक्तम् — “ सत्यावेव नासत्या इत्यौर्ण - वामः, सत्यस्य प्रणेतारौ इत्याग्रायणः, नासिकाप्रभवौ बभूवतुरिति वा " ( निं. ६-१३-१ ) इति || प्राणापानस्वरूपौ स्तः, न सत्यौ असत्यौ, न असत्यौ नासत्यौ इति च तन्निर्वचनम्, तथा, अथ कस्मादश्विनौ व्यश्नुवाते सर्वं रसेनान्यो ज्योतिषाऽन्यः " ( नि. १२-१-३) " अश्वैरश्विनावित्यौर्णवाभः " इति, 66 ( ४ ), तत् कावश्विनौ-द्यावापृथिव्यावित्येके " ( ५ ), अहोरात्रो इत्येके " ( ( ६ ), सूर्याचन्द्रमसावित्येके” ( ७ ), " राजानौ पुण्यकृतावित्यैतिहासिकाः " ( नि. १२-१८ ) इति च ॥ 66 66 (6 अस्मिन् छन्दोदर्शने तु " अग्नीषोमौ, इन्द्रासोमौ, तथा इन्द्राग्नी च अश्विनौ ” इति स्तूयेते इत्येव विशेषः, तौ एतावेव अग्नीषोमौ ज्योतीरससत्त्वरूपत्वात्, तौ स्वेन ज्योतीर सैकसत्त्वेन इदं विश्वं मृडयताम् इति || COMMENTARY-SUMMARY TRANSLATION This Agni, the celestial one, as he is born of the sun, is truly āditya. With his rays which are life forces, he pervades this universe. Soma also is celestial and with his essences and the mind, he pervades the universe.

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524