________________
452
छन्दोदर्शनम
पदम् । पश्यामि । दर्शतम् । सम् । परि'। इतम् । तत् । परमम् । ज्योतिः। विश्वस्य । दर्शयत् ।।
अन्वयभाष्यम् । एतन्मन्त्रार्थः पूर्वं व्याख्यातः ॥
अस्मिन् सूक्ते विशेषतः प्रत्येकस्मिन् “ तपसा-उपवसन् ” इति उपवाससञ्ज्ञकं अनशनरूपं यत् तपः दर्शितं तदेव किञ्चिद् विमृश्यते ॥ अस्मिन् लोके सर्वेषामपि प्राणभृतां " अशनं-अनशनं" इति च नियते सदा प्रवृत्ते द्वे वृत्ती भवतः, तत्र सर्वेषु विषयेषु व्याप्तिरूपा प्रवृत्तिरेव अशनं तथा तेभ्यो विषयेभ्य: असद्वस्तुसम्बद्धेभ्य: अनिष्टेभ्यश्च निवृत्तिरेव अनशनम् || " अशु व्याप्तौ” (१२६४ ) इति धात्वर्थयोगात् ॥ तथैव बाह्येषु तेषु विषयेषु अप्रवृत्तिरपि अनशनरूपैव भवितुमर्हति, या तु औदासीन्यस्थितिरिति प्रसिद्धा || "नैनमहो अश्नोति" (ऋ. मं. ३-५९-२)" न तमश्नोति कश्चन" (ऋ.मं. १०-६२-९) इति च तदनुश्रवणम् || एवमेव " अश् भक्षणे" (१५२४) इति धात्वर्थात् अशनं नाम भक्षणं, तथा अदनीयं अन्नं च भवितुमर्हति | " सर्वं स पूतमश्नाति स्वदितं मातरिश्वना" (ऋ.मं. ९-६७-३१) इति तदर्शनम् ॥ " अद्यतेऽत्ति च भूतानि | तस्मादन्नं तदुच्यते" (बृ. उ. २-२) इति च ||
"न तमश्नोति कश्चन न तदश्नाति किञ्चन " इति तयोरुभयोर्योगेन निदर्शनम् ॥ अत्र अनशन नाम भक्षणात् निवृत्तिरूपं अभुक्तिरूपं च भवितुमर्हति ॥ एतत्सत्त्वद्वयसहिते एते उभे वृत्ती इति शास्त्रसङ्केतः, एतद् वृत्तिद्वयमभिलक्ष्यैव तस्य चेतनात्मन: पुरुषस्य सर्वेषु पुरुषेषु अन्तरनुप्रवेशः अनुश्रूयते, “ त्रिपादूध्वं उदैत् पुरुषः पादोऽस्येहाभवत् पुनः । ततो विष्वङ् व्यक्रामत् साशनानशने अभि" (ऋ.मं. १०-९०-४) इति ॥ अत्र तादृशवृत्तिद्वयसहिते ते “साशनानशने" स्थावरजङ्गमात्मके अचेतन-सचेतनरूपे च इति तदर्थः सम्पद्यते | अत एव सामवेदे आथर्वणीये च अशनानशनयोरेव अनुश्रावणं इति प्रतीयते ॥ " ततो विष्वङ् व्यकामदशनानशने अभि" ( सा. आ. कां. ६-४-४) (६१८) इति || “ततो व्यकामद् विश्वङ् अशनानशने अनु" (अ. सं. १९-६-२) इति ॥ " पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत् " (बृ.उ.) इति च ॥ एतस्मिन् अर्थे औपनिषदं ब्राह्मणानुवचनमपि भवति, “ सोऽद्य एव पुरुषं समुद्धृत्यामूर्छयत् । ता एता देवताः सृष्टा अस्मिन् महत्यर्णवे प्रापतन् , तं अशनापिपासाभ्यामन्ववार्जयत् | ता एनमब्रुवन् आयतनं नः प्रजानीहीति यस्मिन् प्रतिष्ठिता अन्नमदामेति (ऐ.उ. २-१-५)। तत्र पुरुषाणां सर्वेषामपि प्राणभृतां अशनापिपासात्मक वृत्तिसत्त्वं दर्शयन्ति ||
तद्वदेव अनशनमपि अनुश्रूयते उपकोसलविद्यायां उपनिषदि प्रपञ्चितम्, “स ह