________________
छन्दोदर्शनम्
453
व्याधिनाऽनशितुं दधे, तमाचार्यजायोवाच ब्रह्मचारिन् अशान किं नु नाश्नासीति, स होवाच बहव इमेऽस्मिन् पुरुषे कामाः नानात्ययाः व्याधिभिः परिपूर्णोऽस्मि नाशिष्यामीति" (छां.उ. ४-१०-३)। अभक्षणरूपं अनशनं तपोव्रतरूपेण अनुष्ठितमनुश्रूयते, तच्च मानसिक व्याधिनिवृत्तये कारणीभूतं ज्ञानोदयादिसाधनीभूतं चेति प्रतीयते, तथा अन्यत्रापि तदनशनं यमस्यापि संयमने शक्तं तीक्ष्णं शस्त्रमिव संवृत्तं दृश्यते, “तिस्रो रात्रीर्यदवात्सीगृहे मे अनश्नन् ब्रह्मन् अतिथिनमस्यः ॥ नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व" ( कठोप. १-९) इति ॥ अत एव तस्य अनशनस्यैव परमतप:स्वरूपत्वं प्रतिज्ञायते । “ तप इति तपो नानशनात् परं तदुर्धर्षं तद्दुराधर्षम् | तस्मात् तपः परमं वदन्ति " (ना. उ. २१-२) इति च || तत्र अशनानशनयोः तयोः सर्वेन्द्रियाणां आत्मन्यन्तर्मुखेन उपनयन-संयमन-संशोधनादिसत्त्वसम्पन्नयोः संविधानं तदनुष्ठानं च वैदिके यज्ञादौ प्राचामृषीणामाचार्याणां च आचारपरम्परागतं इदानीमपि दरीदृश्यते तत्सदाचरणम, यज्ञीयादि व्रतादेशे तयोरुभयोरपि अशनानशनयोः सत्त्वं प्रतीयते समानरूपेण, यज्ञीये व्रते-- " अथातोऽशनानशनस्यैव" (श. ब्रा. १-१-१) इति तदपदेशात् ॥ तत्र अशनरूपं व्रतम्, “पयो वै ब्राह्मणस्य व्रतम् " (तै.) इति ॥ "एकं स्तनं व्रतं कुर्वीत द्विस्तनं त्रिस्तनं व्रतम्" इत्यादि विधानं विद्यते पयसः अशने, “कृच्छ्रातिकृच्छू पयसा दिवसानेकविंशतिम्"(म. स्मृ.) इति मनुः ॥ एवं कृच्छादिवते दुग्धस्य अशनं विहितम् ॥ “अथ पार्वणस्थालीपाकः तस्य दर्शपूर्णमासाभ्यामुपवास: " ( आ. गृ. सू.) इति उपवासविधान तदनशनरूपम् ॥ त्रेताग्नीनां च अग्निहोत्रिणां दर्शपूर्णमासेष्टौ तबतादेशे तु- “यदशितमनशितमिव (भवति) तदश्नीयात् " (श. ब्रा. १.१) इति || तदनशनानुविधानं च अशनसहक्लप्तम्, तन्निवचनमपि अन्यत्र अनुश्रूयते - "अपोऽश्नाति । तन्नेवाशितं नेवानशितम्” (ते. ब्रा.) इति || “ अब्भक्षो वायुभक्षश्च" (म.स्मृ.) इति तदनुवचन उद्देशान्तरेण विहितं दृश्यते ॥ एवमेव उपनयनादिव्रतेऽपि तदशनं शास्त्रतो नियमितं ब्रह्मचारिणां कृते, " अक्षारलवणाशी स्यात्” ( आ. गृ. सू.) इति ॥ तथा " मधु-मांस-उच्छिष्ट-ताम्बूलादीनामनशनं च विहितम् " | तदेतद् विवाहवते वधूवरयोरुभयोरपि समानमेव, “अक्षारलवणाशिनौ अधःशायिनौ ब्रह्मचारिणौ स्याताम् " ( आ. गृ. सू.) इति ॥
___ तथैव आयुर्वदेऽपि आयुरारोग्यादिसिध्यर्थं अशनानशनयोः तयोरुभयोरपि समाश्रयणमुपदिश्यते, “हिताशी स्यान्मिताशी स्यात् कालभोजी जितेन्द्रियः । पश्यन् हि सकलान् रोगान् बुद्धिमान् विषमाशनात्" (च. सं.) इति ॥ तदेतत् सत्त्वशुद्धिद्वारा ज्ञानोदयेऽपि समानमेव भवितुमर्हति । “हितमितमेध्याशिनो हि ब्रह्मणि विविदिषा भवति" (ब्र. सू. शा. भाष्ये भामती) इति ||
एवं ज्वरादिरोगनिवृत्तये चिकित्सारूपेण अनशनं प्रशस्यते, “ ज्वरादौ लङ्घनं प्रोक्तम्" इति, "लङ्वन परमौषधम्" इति च || तथैव यज्ञे योगे ज्ञानोपनादौ च पात्रतादि