________________
454
छन्दोदर्शनम्
-
सिध्यर्थं युक्ता सत्त्वशुद्धिरेव प्राधान्येन समुद्दिष्टा । सा च प्राणसन्धारणार्थं जीवनार्थं च प्रत्यहं अनिवार्यतया सेवनीयाभ्यां अशनानशनाभ्यामेव सिध्येत् इति सर्वशास्त्रसम्मतं तत्त्वम्, अत एव तादृशेन सन्नियतेन आहारेण प्राणसन्धारणद्वारा सर्वषामपि इन्द्रियाणां सत्त्वशुद्धया सर्वत्रापि विषयेषु नियता प्रव्रत्तिः, तेभ्यो निवृत्तिः, तथा आत्मनि अन्तः निष्ठात्मिका अप्रवृत्तिरपि भवितुमर्हतीति प्रतिज्ञायते, तथा च तदनुश्रवणम् – “आहार शुद्धौ सत्त्वशुद्धिः, सत्त्वशुद्धौ धवा स्मृतिः, स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः " छां. उ. ७-२६-२) इति ॥ 'युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा " (भ.गी.) इति च स्मृतिः ॥ एतेन " आह्रियते इति आहारः " इति व्युत्पत्तेः अन्नरसादीनां भक्षणं इति प्रथमोऽर्थः तथा श्रोत्रादिभिः इन्द्रियैः शब्दादीनां विषयाणां आहरणं तद्ग्रहणं तथा तदुपसेवनमपि अन्योऽर्थः एवं आहारशब्दस्य तथा तदाहाररूपस्य अशनस्यच स्वरूपं लक्षणमित्युक्तं भवति ॥
तद्विपरीतमेव अनशनस्य स्वरूपम् । तथा च अन्नरसादीनां अभक्षणम्, विषयेषु अप्रवृत्ति:, तेषां असेवनं च तल्लक्षणं भवति ॥ तदनुवचनं च दृश्यते - " विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते” (भ.गी.) इति ॥
22
,,
66
तदेतदुभयरूपं अशनं अनशनं च जीवेशयोः मनुष्यदैवतयोः यथाक्रमं गुणधर्मात्मकं वृत्तिरूपं सत्त्वं इति अनुश्रूयते । तथा च ऋङ्मन्त्रवर्णः दैर्घतमसायः द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ॥ तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति ” (ऋ. मं. १ - १६४ - २० ) इति ॥ " न वै देवा अश्नन्ति न पिबन्ति एतदेव अमृतं दृष्ट्वा तृप्यन्ति ” ( छां. उ. ३-६-१ ) इति च ब्राह्मणम् ||
अत्र ते सुस्पष्टार्थके अशनानशनात्मके भुक्ति - अभुक्तिरूपे द्वे वृत्ती भवतः, एतेन अशनं नाम विषयेषु प्रवृत्तिः, भुक्तिः संसक्तिः इत्यर्थ: सम्पद्यते, तथा अनशनं नाम विषयेषु अप्रवृत्ति:, अभुक्तिः, विमुक्तिः, स्वरूपस्थितिः इति च अर्थात् सिध्यति ||
"L
“ अग्ने नय सुपथा राये अस्मान् " ( (ऋ.मं. १- १८९-१ ) इति || “ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् ” (ऋ. मं. १-९० - १ ) इति च सत्पथप्रवृत्त्यर्थकं वेदानुवचनं तत्प्रार्थनादिरूपम् || “ न दुरुक्ताय स्पृहयेत् ” (ऋ.मं. १-४१, ९ ) मावो घ्नन्तं मा शपन्तं प्रति वोचे देवयन्तम् | सुम्नैरिद् व आ विवा (ऋ. मं १-४१-८) इति च निवृत्त्यर्थकं वचनम् || उभयार्थकमपि भवति, "इमां धियं शिक्षमाणस्य देव ऋतुं दक्षं वरुण संशिशाधि | ययाऽति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम " (ऋ. मं. ८-४२-३) इति ॥ " क्रतुं दक्षं वरुण संशिशाधीति वीर्यं प्रज्ञानं मयि संशिशाधीत्येव तदाह " (ऐ. ब्रा.) इति च ब्राह्मणम् || तथा " मृत्योर्मुक्षीय मामृतात् ” (ऋ. मं. ७-५९-१२ ) 'मुमुग्ध्य१स्मान् निधयेव बद्धान् ” (ऋ. मं. १०-७३ - ११) “ असतो मा सद्गमय ।
८८
""