________________
छन्दोदर्शनम्
अन्वयभाष्यम् |
66
रुद्राणां प्राणात्मनां
रुद्राणां एकादशप्राणानां मातरं निर्मात्रीं जीवनरसप्रदानेन रक्षन्तीं वर्धयन्तीं च, माता रुद्राणां अमृतस्य नाभि: ” (ऋ. मं. ८ - १०१ - १५ ) इति मन्त्रवर्णे " मा गामनागामदितिं वधिष्ट " इति वाग्रससत्त्वायाः गां इति निर्देशात् सा माता रसात्मैवेति गम्यते, तथा " 'दशेमे पुरुषे प्राणा: आत्मैकादश: " (बृ. उ. ३-९-४ ) इति च ॥ एकादशप्राणानां रुद्रात्मत्वं अनुश्रूयते, तथैव " आपोमय: प्राण: " ( छां. उ. ६-७ - १ ) इति प्राणस्य अबूरसमयत्वं उपदिश्यते ॥ विद्यतः सकाशात् स्रुचं स्रवन्तीं विद्यच्छक्तेः प्राणसत्त्वं स्रावयन्तीं वा, अन्तरिक्षे स्वरन्तीं माध्यमिकया वाचा सह शब्दायमानां सरस्वतीं वाक्सत्त्वां रसात्मिकां च रुद्रेण वैद्यतेन सस्वरेण ज्योतिषा पविना पुनर्ती पावनस्वभावां पावयित्रीं पावमानीं तां दिव्या इमां दिव्यसत्त्वां देवतात्मिकां गङ्गां शरणं प्रपद्ये आत्मानं पावयितुं प्रत्यक्षं प्राप्नोमीति ||
9
COMMENTARY-SUMMARY TRANSLATION
She is the creatrix of the eleven Pranas, protecting them and making them grow with the very life-force. Cf. " She is the mother of Rudras and the very origin of Ambrosia " (Rg. VIII-101-15). "She is, being the very essence, the mother of Rudras; again, these ten Prānas are in an individual and the soul is the eleventh " ( Br. Up. III-9-4 ). Here, it is known that the eleven Pranas are Rudras. Further, "Prāna is full of Waters." (Chha. Up. VI - 7 - 1). This shows that Prana is full of the essence of waters.
She is flowing forth from lightning or she is pouring the life-essence from lightning. She is Sarasvati, resounding in the mid-air, with Vak, presiding there; she is the force of Vak or the essence, which purifies with the lightning of Rudra who wields the thunderbolt. That Ganga, the heavenly one, I worship as the last refuge in order to purify myself.
चतुर्थी ऋक् ।
पदपाठः
-
प्रा॒णानां तां जनि॑ित्र॒ सह॑स्वतीं
म॒रुता॑ वाऽधि॑ रु॒द्रया॑णा॒मन्त॑ः ॥
धिय॒श्चित्तरनुचेत॑न्तीं गङ्गा
म॒पो दे॒वीः शरणं प्रति॒ि प्र प॑द्ये ॥ ४ ॥
419
प्राणानाम् । ताम् । जनि॑त्रीम् । सह॑स्वतीम् । म॒रुता॑म् । वा । अधि॑ । रुद्रिया॑णाम् । अन्तः ।।