________________
444
छन्दोदर्शनम्
अन्वयभाष्यम् । __ हे वायो ! देव-गृहपते ! अन्तरिक्षाधिपतित्वात् तस्य वायोः तद्गृहपतित्वम्, अतः अन्तरिक्षे स्वस्थाने बहिः अन्तःशरीरे च ज्योतिषा तेजःसत्त्वेन पवमानाय प्रवहते पावयते च ते नमः | अमुं मध्यमं मध्यमलोकाधिपति तं परोक्षसिद्ध नीरूपं सन्तं रुद्रपुत्रं रुद्राद् विद्युदात्मनः सकाशात् आविर्भूतं सन्तम्, प्राणैः तत्प्रेरितैः वायुसत्त्वैरेव आन्तर्यैः सर्वैः प्राणरूपैः करणैः उपवसन् निर्विषयात्मकेन अनशनरूपेण केवलं वायुसेवनरूपेण नियमेन तपसा आन्तर्येण संयमेन तं वायुरूपं मुख्य प्राणं आन्तर्यतम प्रपद्ये प्राप्नोमि इति ॥
अत्र वायोः व्रतपतित्वे प्रमाणात्मकं यजुः, गृहपतित्वे ब्राह्मणवचनं च भवतः । " वायो व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम्" (तै.) (शु. य.) इति || सोऽयं यज्ञीये व्रते समिधाधानमन्त्रः। " वायुर्वै गृहपतिः सोऽन्तरिक्षलोकस्य गृहपतिः " (ऐ ब्रा.) इति ॥
COMMENTARY-SUMMARY TRANSLATION Oh God Váyu ! salutations to you who are the lord of this body and who are in the mid-air externally. That is your abode. You blow with the power of light and purify all things also. This is the lord of mid-air who is born of Rudra, the purifying deity. I attain him by penance of internal senses which are themselves pranas (life. breaths). I attain him by meditation on him. I practise living on air only, and with tapas, that is internal restraint, I attain Vàyu, who is the chief vital air and who is the innermost power.
___Cf. “Vayu is indeed the lord of the house. He is the householder of the mid-air" (Ait. Bra.). And again, Oh Vayu, Vratapati, I undertake the vow and may your grace help me to get through the same and may it fructify for me" (Tait. Sam.). This is a mantra used when offering Samidha, the sacred stick to the sacrificial fire.
तृतीया ऋक। नमस्तेऽस्त्विन्द्र ब्रह्मणस्पते विद्युतः सहसाऽन्तरिक्षे स्वरते ॥ अमुं मरुत्सयुजमिन्द्रं ब्रह्मणा
वाचा तपसोपवसन् प्र पद्ये ॥३॥ पदपाठः - नमः । ते । अस्तु । इन्द्र । ब्रह्मणः । पते ।
विऽद्युतः । सहसा । अन्तरिक्षे । स्वरते ॥