________________
426
छन्दोदर्शनम
COMMENTARY-SUMMARY TRANSLATION
Oh milch cows, in you who are adorable, there is milk associated with Rudra. Cf. "The milk in the cow is associated with Rudra" (Aita. Bră.). Make that milk flow freely and always, so that I, your son, may live and prosper.
चतुर्थी ऋक् । यद् वायव्यं सं विसृष्टं स्वेन वत्सेनोत पीतम् |
स्तन्यं तद् दत्त दोग्धे मे वत्सस्य मे जीवनाय ॥४॥ पदपाठः – यत् । वायव्यम् । सम् । विऽसृष्टम् । स्वेन । वत्सेन । उत । पीतम् ।
स्तन्यम् । तत् । दत्त । दोग्धे। मे। वत्सस्य॑ । मे । जीवनाय ॥
Give me who am milking you that milk which is associated with Vàyu after being drunk by the calf, so that I, your son, may live and prosper.
अन्वयभाष्यम्। यत् संविसृष्टं ऊधसि सन्त्यक्तं वायव्यं वायुदेवताकं पयः भवति, " वायव्यमुपावसृष्टम् " (ऐ. ब्रा.) इति च ब्राह्मणम् , उत स्वेन निजेन वत्सेन पीतम् पीतावशिष्टं स्तन्य दुग्धं तत् दोग्ने मे मह्यं दत्त, वत्सस्य मम जीवनायेति || अत एव वत्सेन अपीतं दुग्धं अप्रशस्तमिति सिध्यति, एतेन च अग्निहोत्रार्थ पानार्थे च अनुचितं तत् शास्त्रतः प्रतिषिद्धमिति प्रतीयते " शास्त्राय च सुखाय च " इति न्यायेनेति ||
COMMENTARY-SUMMARY TRANSLATION The milk that oozes from your udder, oh cow, is associated with Vayu. Cf. “The milk oozing from the udder, is associated with Vayu" (Aita. Bra.). It is the milk which remains after being drunk by your calf. Give me who am milking that surplus milk, so that I, your son, may live.
पञ्चमी ऋक् । यदाश्विनं सत् सुधार दुह्यमान महाश्विनौ ।
अमृतं तत् कल्पयतां वत्सस्य मे जीवनाय ॥ ५॥ पदपाठः – यत् । आश्विनम् । सत् । सुऽधारम् । दुयमानम् । इह । अश्विनौ ।
अमृतम् । तत् । कल्पयताम् । वत्सस्य । मे । जीवनाय ॥