Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 443
________________ छन्दोदर्शनम 413 षष्ठी ऋक्। अमूमुत्तरां वरुणानी गङ्गामिमामग्नायीं तां यमुना पूर्वाम् ॥ ऐन्द्रीं मध्यमां तां सरस्वती प्राणैर्मनसा वाचा व प्रपद्ये ॥६॥ पदपाठः - अमूम् । उत्तराम् । वरुणानीम् । गङ्गाम् । इमाम् । अग्नायीम् । ताम् । यमुनाम् । पूर्वाम् ॥ ऐन्द्रीम् । मध्यमाम् । ताम् । सरस्वतीम् । प्राणैः । मनसा । वाचा । च । प्र। पद्ये ।। The highest heavenly Gangă is presided over by Varuņa. Yamunā the first on earth is presided over by Agni. Sarasvati who is in between is presided over by Indra. I invoke and worship them with all my powers, with my mind and with my speech. अन्वयभाष्यम् । अथ अधिभौतिकादितत्त्वत्रयसामरस्ययोगेन तासां गङ्गादीनां उपासनां उपदिशति । अमू विप्रकृष्टां उत्तरां ग्रुपदसंस्थां भूमौ उत्तरतः हिमगिरेः सकाशात् अवतरन्तीं वरुणानी उत्तमलोकाधिष्ठात्री वरुणदेवत्यां दिव्यां गङ्गां प्राणैः प्राणसन्धारणार्थं प्रपद्ये इति उत्तरत्र अन्वयः। तथा इमां एतल्लोकाधिष्ठात्री पूर्वी पूर्वतः प्रथमलोकात् प्रवहन्ती अग्नायीं अग्निदेवत्यां यमुनां मनसा प्रपद्ये, मध्यमां मध्यमलोकाधिष्ठात्रीं भूमौ तु सितासितयोः सरिदोः गङ्गायमुनयोः तयोरेव सन्धिरूपां अत एव गुप्तगामिनी तां परोक्षां ऐन्द्री इन्द्रदेवत्यां सरस्वती वाचा प्रपद्ये | अत्र क्रियासत्त्वैः प्राणैः भावनासत्त्वेन मनसा ज्ञानसत्त्वप्रधानया वाचा च वरुणाग्नीन्द्रशक्तिरूपाः ता: गङ्गा-यमुना-सरस्वती: भावयामि, तथा प्राण-मनोवाग वृत्तिभिः सन्धारयामि, ता एताः तिस्रः सरिदः अन्तरात्मनि सिद्धाः चिदात्मनः सकाशात् अजस्रधारया नित्यं प्रवहन्ती: अनुसन्दधामि क्रियाभावनासंविच्छक्तिरूपाः ता: करणत्रयेण समुपास्ये इति ॥ COMMENTARY-SUMMARY TRANSLATION Now we are told about the devoted worship of the Ganga, Yamunā and Sarasvati by equating them with the physical, psychological and spiritual forces. The Gangå is heavenly. She who is in the highest and the remotest sky descends on this earth. She is Varunani, that is presided over by Varuna.

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524