________________
छन्दोदर्शनम्
105 नवमी ऋक् । . सरस्वति त्वं ज्योतिषा सदक्षरं .. विश्वमेतत् क्षरति त्वदर्थतोऽभि ॥ क्षरद् विश्व तदनु त्वं न क्षरसीह
वाग विदा वरं ब्रह्म संविदो योनिः ॥ ९ ॥ पदपाठ :- सरस्वति । त्वम् । ज्योतिषा । सत् । अक्षरम् ।
विश्वम् । एतत् । क्षरति । त्वत् । अर्थतः । अभि ।। क्षरत् । विश्वम् । तत् । अनु । त्वम् । न । क्षरसि । इह ।
वाक् । विदा । वरम् । ब्रह्म । सम्ऽविदः। योनिः॥ Oh Sarasvati ! you are the eternal flame of intelligence and are indestructible. This universe issues forth from you as meaning proceeds from the word. This universe is perishable but you remain imperishable. Oh Vāk, you by your intelligence are Brahma and the source of all knowledge.
अन्वयभाष्यम् । हे सरस्वति ! त्वं ज्योतिषा ज्योतिरात्मना सत् सत्यरूपं अक्षरं वस्तु सदेव असि, तस्माद् वाचकायाः त्वत् त्वत्तः त्वत्सकाशात् साक्षात् पदार्थरूपेण एतद् विश्व क्षरति प्रजायते, तदिदं विश्वं क्षरत् क्षयोन्मुखं वस्तु अनुसृत्य त्वं इह सर्वस्यापि मूलबीजरूपा सती नैव क्षरसि न नश्यसि, नापि विपरिणमसे, निजरूपेण नाम्ना अवशिष्यसे इति यावत् , तस्मात् हे वाक् ! मातः सा त्वं विदा वरणीय प्रत्यक्षं ब्रह्म, सर्वस्यापि ज्ञानस्य कारणमिति, वागेव सर्वज्ञानप्रकाशकं आन्तर्य परं करणमिति सम्पद्यते इति ॥
COMMENTARY--SUMMARY TRANSLATION Oh Sarasvati ! you are the imperishable flame of intelligence. Universes issue forth from you like meanings from words. While universes perish, you, their source, are imperishable. It is by expressing in words that you create universes and everything in them. The word is the creator.
दशमी ऋक् । सरस्वति त्वं प्रतिष्ठा विश्वस्येह नाम्नैव वाचा शिष्यते विश्वं परि॥ ज्योतिषा त्वदुदेति तद् वाचः पुन
र्वाग् विदा वरं ब्रह्म संविदो योनिः ॥१०॥ CD-14