________________
छन्दोदर्शनम
285
द्वितीया ऋक् । यः संविदा द्योतते देवतमो यो धीभिरभिचष्टे संविध्यै ॥ विश्वं यश्चेतयते सुप्रचेताः
स सत्योऽयममृतो विश्ववेदाः ॥ २ ॥ पदपाठः- यः । सम्ऽविदा । द्योतते । देवऽतमः ।
यः। धीभिः । अभिऽचष्टे । सम् । विध्यै ।। विश्वम् । यः। चेतयते । सुऽप्रचैताः ।
सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥ He shines as the greatest of gods on account of his power and cosciousness. He sees everything and attains the highest by the power of his manifold intellect. He being omniscient, activises this universe. He is the reality. He is immortal and omniscient.
अन्वयभाष्यम् । यः आत्मा संविदा प्रज्ञानचित्कलया द्योतते स्वयं प्रकाशते; अत एव देवतमः सर्वेषां देवानां श्रेष्ठतमः आत्मैव सर्वदेवतासु वरिष्ठः, इति यावत् , यः संविदध्यै सम्यक्तया वेत्तुं तद्विज्ञानार्थम् धीभिः बुद्धयादिकरणैः अभिचष्टे पश्यति सर्वत्र साक्षिरूपेण तिष्ठति, अत्र तुमुन्प्रत्ययार्थे विद् धातो: अध्यै प्रत्ययान्तं पदम्, तेन " विद् ज्ञाने" “ विद्ल लाभे" इति अर्थात् ज्ञातुं प्राप्तुं चेति अर्थद्वयं गम्यते विदध्यै इति एकेनैव पदेन, इति विशेषः ॥
यः स्वयं प्रचेताः चेतन: सर्वज्ञश्च सन् विश्वं इदं अचेतनं जगत् सर्वं चेतयति बोधयति आत्मसात् करोति, अचेतनमपि विश्वं सचेतनं भावयति, अग्निरिव अयापिण्ड स्वस्वरूपं करोतीति भावः, चेतनात्मनः तदिदं स्वभावसिद्धं वस्तुतत्त्वम् यदात्मसात्करणसामथ्र्यम्, सोऽये अन्तरात्मा सर्वान्तर:सत्यामतादिलक्षण: विश्ववेत्ता च स्वयमेवास्तीति ॥
COMMENTARY-SUMMARY TRANSLATION The Atmā, with his power of knowledge, shines brilliantly. He is the best of all the gods. He is everywhere as a witness with all the instruments of intellect etc., and he attains all that he wants. He is himself conscious energy; he is omniscient and so gives knowledge to the universe. He makes the inert universe active as fire does an iron ball. He is himself conscious energy and so, it is natural for him to make others like himself. The inner soul of all is the truth. He is immortal and omniscient.