________________
छन्दोदर्शनम
337
वर्णोऽपि तमेतमेवार्थं समर्थयति || तेन च भूयः पुनरपि पृथिवीं इमां अवमा अन्तरिक्ष मध्यमं सन्धिरूपं दिवं अमुं लोकं उत्तमं भुवनं च नामभिः रूपैश्च त्रीत्रीणि भुवनानि विममे विश्वेषां भूतानां तथा प्राणभृतां स्थावरजङ्गमरूपाणां कृमिकीटादीनां जन्तूनां मानवान्तानां तथा दिव्यानां देवतात्मनां च प्रतिष्ठायै त्रीणि स्थानानि कल्पयामास इति आशयः || सः तादृश: कल्पनातीतः परस्मात् परतम: तावत्सत्त्वमहत्त्वादिभिः विभूतिभिः पूर्णः स: परमः पुरुष: एव भवितुमर्हतीति हृदयम् ॥ अस्मिन् विषये त्रेधा ऋङ्मन्त्रवर्णोऽनुश्रूयते | तथा हि" एतावानस्य महिमाऽतो ज्यायाश्च पूरुष: | पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि " (ऋ. मं. १०-९०-३) इति || “तावानस्यःमहिमा ततो ज्यायाश्च पूरुषः" (साम.६.२०) "तावन्तो अस्य महिमानस्ततो ज्यायाश्च पूरुषः" (अथर्व सं. १९-६-३) इति तु आथर्वणीये ||
तत्र ॥ एतावानस्य महिमा" इति तन्महत्त्वस्य प्रत्यक्षतो विश्वविभूतियोगेन निर्देशः। " तावानस्य महिमा ” इति च तस्य महिम्नः विश्वतः परत्वेनोपदेशः ! "तावन्तो अस्य महिमानः" इति तु परोक्षसिद्धस्यापि तन्महत्त्वस्य बहुधा भावेन संस्तुतिः अनन्तत्वोपवर्णार्था इति विशेषः ॥ चतुष्पात्त्वं ज्यायस्त्वं परमत्वं यथाश्रुतं सर्वत्रापि तत् समानमेवेति हृदयम् ॥
COMMENTARY-SUMMARY TRANSLATION
He is Ātma, the intelligent energy. With those three vyährtis, he created this universe. The vyahrtis are Bhuh, Bhuvah, and Svah. He measured the three worlds means he made them equal to his three steps. Cf. "He, with his three steps measured this extensive universe, which he himself has created and fixed" (Rg. I-144-3). By measuring this earth, mid-air, the middle one and borderland, and that sky, which differ in both name and form, he created the abode of all beings from worms and insects to human beings and the celestial gods. Such an unimaginable power is the supreme of all the supremes. He is full of all virtues like strength, greatness etc. He is Purusha. A Rk mantra, used in the other two Vedas also, may be cited. “This much is his greatness. Therefore, this Purusha is great” (Rg X-90-3). “That much is his greatness. Therefore Purusha is great" (Sama 6-20 ). “So mighty and extensive is his greatness. Therefore, Purusha is great" ( Atharva 19-6-3). The word 'Etavan' indicates his greatness as visibly evident by his universal glory. Again 'tavan' with reference to his greatness, indicates that his greatness is beyond this universe. Tavantah' also indicates that his greatness, though invisible,is praised in diverse ways in order to describe his infinity. His greatness and supremacy are the same everywhere. CD.43