________________
336
छन्दोदर्शनम् त्रिधा-इत् त्रिधैव भावेन मिमाय विबभाज, सर्वभूताश्रयीभूतं कल्पयामास इति भावः, सः परस्मात् अस्मात् सर्वस्माद् भुवनात् परमः परतमः त्रिभुवनाधिष्ठानसत्त्वः परमव्योमात्मकः पूर्णः पारमैश्वर्यादिभिः सर्वैगुणे: सम्पन्नः अन्यूनसत्त्वः स पुरुषो भवतीति ||
COMMENTARY-SUMMARY TRANSLATION
This Atma is the intelligent energy. He utters Im. it is the Vak, the supreme power in the form of a letter or mantra. He breathed out and with the force of that breath in the sky which is the macrocosm, he uttered the three words “ Bhaḥ, Bhuvaḥ and Svaḥ." They are uttered and therefore they are called vyahrtis, utterances. Again with these words, he divided this whole universe into three divisions, so that it may become the refuge of all the beings. The three divisions are, this solid earth, the vacant space surrounding the earth and the sky beyond. He is supreme of all the supremes. He is the essential substance which supports these three worlds. He pervades the sky. He, the Purusha being perfect has no want.
षष्ठी ऋक् । यो वा व्याहृतिभिरेवेदं तिसृभिः पृथिवीं चान्तरिक्षं च दिवं भूयः॥ य इमानि त्री भुवनानि विममे
परस्मात् पुरुषः स पूर्णः परमः ॥ ६ ॥ पदपाठः - यः । वा । व्याहृतिऽभिः । एव । इदम् । तिसृऽभिः ।
पृथिवीं । च । अन्तरिक्षं । च । दिवम् । भूयः ॥ यः। इमानि । श्री। भुवनानि । विऽममे ।
परस्मात् । पुरुषः । सः । पूर्णः । परमः ॥ He created indeed, with these three vyahrtis (utterances ) this earth, midair and the sky. He measured out these three worlds. He is the Purusha, the supreme one of all the supremes, and he is the perfect one.
अन्वयभाष्यम् । ___ यः आत्मा चेतनः पुरुषः तिसृभिः ताभिरेव व्याहृतिभिः “भू भुवः स्वः” इति एताभिरेव इंद विश्व विममे, स्वीयैः त्रिभिः पदैः समानं भावयामास इति तदर्थः, “य इदं दीर्घ प्रयतं सधस्थमेको वि ममे त्रिभिरित् पदेभिः" (ऋ. मं. १-१४ -३) इति ऋङ्मन्त्र