________________
384
छन्दोदर्शनम्
तेषां च आध्यात्मकसत्त्वपराणि पञ्चकरणानि च प्रसिद्धानि, सर्वेषामपि अन्तर्हितानि अपरोक्षाण्येव भवन्ति, “ मनः, चक्षु, वाक् ( मुखं ), प्राण:, श्रोत्रं" चेति ॥ तथा तेषां अग्न्यादीनां पुरुषे अस्मिन् अन्तःप्रवेशादपि तेषु उपस्थितेश्च पुरुषत्वं प्रतीयते, ' अग्निर्वाग्भूत्वा मुखं प्राविशत् " ऐ. उ. २ - ४ ) इत्यादि वचनमेव तदुपोद्बलकम् । एतेषां मष्टा प्राणसञ्ज्ञाऽपि श्रूयते, "ते वा एते प्राणा इत्येवाख्यायन्ते न वाचो न चक्षूषि न मनासीति ” इति ॥
(
"
प्राणापानादयस्तेऽपि पञ्चप्रसिद्धाः तेषां पुरुषे अस्मिन् अन्तः प्रतिष्ठितानामपि ब्रह्मपुरुषसञ्ज्ञया उपदेश: श्रूयते, "ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपा: ( छां. उ. ३-१३-६ ) इति । पञ्चानां तेषां अदितिरूपत्वेन अखण्ड | त्मना श्रूयते पञ्चजनानाम् " विश्वे देवा अदिति: पञ्चजना: ” (ऋ. मं. १-८९-१० ) इति ॥ तथा पञ्चसत्त्वात्मिका इयं मानवी प्रजा पाञ्चजन्या श्रूयते | " यत् पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत ” (ऋ. मं. ८- ६३ - ७) इति ॥ अत्र पञ्च धीन्द्रिय- तद्देवता - सत्त्वसम्पन्नया प्रजा इन्द्रेश्वरे यत् स्तुतिरूपाः उद्घोषाः क्रियन्ते इति सर्वत्रापि पञ्चानां योगः उपदिष्टोऽनुश्रूयते ॥
99
COMMENTARY-SUMMARY TRANSLATION
He, the supreme Purusha, created Pañchajana, fully conscious human beings, with the help of elements in permutation and combination.
Pañchajana is the name of human beings. They are born from the five elements. They are born from the combination of light, water, earth, food and seed ( semen ); They were born of five oblations as it were of sky, rain, earth, male and female; they are virtually Sraddha faith, Soma-nutritive force, Varsha-rain, Anna-food and Retas-seed. They are thus known as the elements which were invested with consciousness. "Thus the waters of the sky become known as a person when they reach (the stage of semen) the fifth oblation." ( Chhan. V-9-1 ) and ( Brh. VI-2-9 to 13 ).
This is the principle involved in Pañchagni Vidya and it is discussed in Brahma Mimamsă (written by Vasishtha Ganapati Muni).
Yaska refers to this matter and describes it: "Some hold that these Pañichajanas are, Gandharvas, Pitrs, Devas, Asuras, and Rakshasas. Aupamanyus hold that Pañichajanas are the four castes, ie, Brahmana, Kshatriya, Vaiśya, Sudra and the fifth is Nishādas ( Nirukta III-8-1). Thus he refers to the two meanings of the word Pañchajana.
He, the Purusha, entered into those Pañchajanas, whom he himself had created, with the help of consciousness and became Pañchajanya. assumed a corresponding form.
He
His five limbs are these Pañchajana.