Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 401
________________ छन्दोदश नम् अन्वयभाष्यम् यः पुरुषः विश्वेषां प्राणभृतां कृते सौमनस्यः सुष्ठुतममानससत्त्वरसमयः दिव्य सोमसत्त्वपूर्णः अतः एव तादृशसौजन्य - सौमनस्यादिदिव्य सौम्य सत्त्वरसप्रदः, तथा प्रियतमः अत्यन्तं प्रेमरसमयः यश्च भद्रः मङ्गलमयः बलिष्ठः भजनीयश्च भद्रतमः सर्वमाङ्गल्यसत्त्वरसपूर्णः अनन्यशरण्यः, भवति । यः परमः पुरुषः भगवान् सर्वैश्वर्यपूर्णः सर्वसत्त्वगुणादिसम्पन्नः, भर्गः ज्योतिर्मयः विश्वपरिपाकादिशक्तियोगोर्जितो भवति । " भर्गः " इतुि रुद्रस्य भगवत: विशिष्टं नामधेयम्, प्रसिद्धं च तत् " हरः स्मरहरो भर्गः त्र्यम्बकस्त्रिपुरान्तकः " इति ॥ स च भर्गात्मा रुद्रः सौमनस्यार्थं यजनीयो भवति । " यक्ष्वामहे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य” (ऋ. मं. ५-४२-११ ) इति, “सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु । पुरुषो वै रुद्रस्तन्महो नमो नमः " ( ना. उ. १३-२ ) इति च ॥ अथवा “ भर्गस्” इति नपुंसकं पदं ज्योतिः परम्, “भर्गो देवस्य धीमहि ” (ऋ. मं ३-६२-१० ) इति तदनुश्रवणम् ॥ " धियो यो नः प्रचोदयात् ” (ऋ. मं. ३-६२-१०) " आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम” (ऋ. मं ३-५९-३) 66 तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे या (ऋ. मं. ३ - ५९-४ ) इति च ॥ एवं भद्राय सौमनस्याय च धीप्रेरकस्य तस्य आदित्यान्तःपुरुषस्य भर्गसमाश्रयणेन तदनुध्यानादिसंविधानदर्शनात् भर्गः परञ्ज्योतिस्स्वरूपो भगवान् परमात्मैव भवितुमर्हतीति प्रतीयते, यः रसः स्वयं रसमयः आनन्दसत्त्वः | " रसो वै सः । रस ह्येवायं लब्ध्वाऽऽ नन्दी भवति | को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति ” (तै. उ. ७ ) इति तदनुश्रवणात् रसशब्दः आनन्दार्थकः इति गम्यते । यः रसतमः परमानन्दरससत्त्वपूर्ण:, " एषोऽस्य परम आनन्दः एतस्येवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ” (बृ. उ. ४-३ - १३ ) इति औपनिषदं ब्राह्मणानुवचनम् | एवमेव रसः सः संविन्मयः रसतम: प्रज्ञानधन, सर्वज्ञानसारभूतत्वात् । तथा च ब्राह्मणम् 66 स यथा सैन्धवचनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन, एवं वा भरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानवन एव " (बृ. उ. ४-५-१३ ) इति ॥ यश्च शन्तमः अत्यन्तं शान्तिसुख- माङ्गल्यादिसत्त्वपूर्णो भवति, तं तादृशं पुरुषं तपसा शान्ति -सत्त्वादिरसमयेन धीभिः आनन्दरसलीनाभि: प्रज्ञानसत्त्वमयीभिः प्रपद्ये अपरोक्षतः तादात्म्येन प्राप्नोमीति ॥ "" 371 COMMENTARY-SUMMARY TRANSLATION The Purusha is well-inclined to all living beings; he is full of good will. And again he is full of intense love. He is full of auspiciousness; he is the strongest and most worshipful. He is the only refuge of all, being full of all auspicious things. He is Bhagavan full of all the glories. He is a Bharga,

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524