________________
छन्दोदश नम्
अन्वयभाष्यम्
यः पुरुषः विश्वेषां प्राणभृतां कृते सौमनस्यः सुष्ठुतममानससत्त्वरसमयः दिव्य सोमसत्त्वपूर्णः अतः एव तादृशसौजन्य - सौमनस्यादिदिव्य सौम्य सत्त्वरसप्रदः, तथा प्रियतमः अत्यन्तं प्रेमरसमयः यश्च भद्रः मङ्गलमयः बलिष्ठः भजनीयश्च भद्रतमः सर्वमाङ्गल्यसत्त्वरसपूर्णः अनन्यशरण्यः, भवति । यः परमः पुरुषः भगवान् सर्वैश्वर्यपूर्णः सर्वसत्त्वगुणादिसम्पन्नः, भर्गः ज्योतिर्मयः विश्वपरिपाकादिशक्तियोगोर्जितो भवति । " भर्गः " इतुि रुद्रस्य भगवत: विशिष्टं नामधेयम्, प्रसिद्धं च तत् " हरः स्मरहरो भर्गः त्र्यम्बकस्त्रिपुरान्तकः " इति ॥
स च भर्गात्मा रुद्रः सौमनस्यार्थं यजनीयो भवति । " यक्ष्वामहे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य” (ऋ. मं. ५-४२-११ ) इति, “सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु । पुरुषो वै रुद्रस्तन्महो नमो नमः " ( ना. उ. १३-२ ) इति च ॥
अथवा “ भर्गस्” इति नपुंसकं पदं ज्योतिः परम्, “भर्गो देवस्य धीमहि ” (ऋ. मं ३-६२-१० ) इति तदनुश्रवणम् ॥ " धियो यो नः प्रचोदयात् ” (ऋ. मं. ३-६२-१०) " आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम” (ऋ. मं ३-५९-३) 66 तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे या (ऋ. मं. ३ - ५९-४ ) इति च ॥ एवं भद्राय सौमनस्याय च धीप्रेरकस्य तस्य आदित्यान्तःपुरुषस्य भर्गसमाश्रयणेन तदनुध्यानादिसंविधानदर्शनात् भर्गः परञ्ज्योतिस्स्वरूपो भगवान् परमात्मैव भवितुमर्हतीति प्रतीयते, यः रसः स्वयं रसमयः आनन्दसत्त्वः | " रसो वै सः । रस ह्येवायं लब्ध्वाऽऽ नन्दी भवति | को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति ” (तै. उ. ७ ) इति तदनुश्रवणात् रसशब्दः आनन्दार्थकः इति गम्यते । यः रसतमः परमानन्दरससत्त्वपूर्ण:, " एषोऽस्य परम आनन्दः एतस्येवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ” (बृ. उ. ४-३ - १३ ) इति औपनिषदं ब्राह्मणानुवचनम् | एवमेव रसः सः संविन्मयः रसतम: प्रज्ञानधन, सर्वज्ञानसारभूतत्वात् । तथा च ब्राह्मणम् 66 स यथा सैन्धवचनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन, एवं वा भरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानवन एव " (बृ. उ. ४-५-१३ ) इति ॥ यश्च शन्तमः अत्यन्तं शान्तिसुख- माङ्गल्यादिसत्त्वपूर्णो भवति, तं तादृशं पुरुषं तपसा शान्ति -सत्त्वादिरसमयेन धीभिः आनन्दरसलीनाभि: प्रज्ञानसत्त्वमयीभिः प्रपद्ये अपरोक्षतः तादात्म्येन प्राप्नोमीति ॥
""
371
COMMENTARY-SUMMARY TRANSLATION
The Purusha is well-inclined to all living beings; he is full of good will. And again he is full of intense love. He is full of auspiciousness; he is the strongest and most worshipful. He is the only refuge of all, being full of all auspicious things. He is Bhagavan full of all the glories. He is a Bharga,