________________
छन्दोदर्शनम्
323
रूपाया: वाचः सर्वस्या अपि वाचकशक्ते: अधिपतिः सोऽयं प्रत्यगात्मस्वरूपः पुरुषः, तस्मात् धीभिः सर्वैः बुध्यादिभिः आत्मैकलक्ष्याभिः धीन्द्रियः तपसा केवलेन विमर्शरूपेण धीयोगेन तं परमं पुरुषं प्रपद्ये प्राप्नोमीति | एतेन धीयोग एव तद्ब्रह्मात्मपुरुषानुभवसाधनमित्युक्तं भवति । तथा च प्रसिद्धः ऋङ्मन्त्रवर्णः-." यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन | स धीनां योगमिन्वति (ऋ. मं. १-१८-७) इति ॥ अत्र ज्ञानादियज्ञसिद्धेः सर्वस्याः अपि मूलभूतः सः पुरुषः सर्वासां धियां अन्तरात्मना सामरस्येन योगे स्वयमेव प्रकाशते इति तदभिप्राय: ॥
COMMENTARY-SUMMARY TRANSLATION Purusha, who is pure consciousness, is the supreme of supremes. He is existence itself. He is known in the world and Veda as one and existing alone. He is Purusha dwelling in the body, throbbing with the cognition ‘T'. It is known that He was all alone in the beginning. Likewise, there was nothing else apart from Him; Purusha was indeed Brahma himself. He is the lord of Vak, who is perceptible. He is the lord of the power of speech. He is the indwelling soul. So, I attain Him, with all the powers of my intelligence, which are directed towards him. I attain him by Tapas, by pure meditation ending in union (Dhiyoga ) with Him, the Purusha, the supreme. Union by dint of meditation (Dhiyoga ) is the only way of realising that Brahma, Atma and Purusha.Cf.: “Without meditation (Dhiyoga), the sacrifice (Yajna) of even the wise is not successful, and He is present in the union on account of meditation only" Rg. I-18-7). The idea is that Purusha who is the origin of all existence can be attained when all the powers of intelligence are one with Him.
द्वितीया ऋक् । यो वा विश्वमिदं बभूवायं बृहन् एक एव यो बहुधाऽऽततान ॥ यो विदा सुचित्ती छन्दसा सुवेदाः
स्तपसा धीभिः पुरुषं तं प्रपद्ये ॥२॥ पदपाठः - यः। वा । विश्वम् । इदम् । बभूव । अयम् । बृहन् ।
एकः । एव । यः । बहुधा । आऽततान ।। यः । विदा । सुऽचित्ती । छन्दसा । सुऽवेदाः । तपसा । धीभिः । पुरुषम् । तम् । प्र। पद्ये ॥