________________
छन्दोदर्शनम
287
celestial forms of that Atmā, who is all alone and pure knowledge. This is the cardinal principle of the Vedas. ___The fourth line is to be interpreted as before. Cf.: "Surya, the soul of the mobile and the immobile creations has filled the sky, the earth and
mid-air" (Rg. I-115-1). This mantra of Kutsa testifies to the above statement.
___ चतुर्थी ऋक् । यो देवानां जनिता पतिः सोमो यो मतीनां पिताऽधि भुवनानाम् ॥ येनेमा विश्वा भूतानि मदन्ति
स सत्योऽयममृतौ विश्ववेदाः ॥ ४ ॥ पदपाठः – यः । देवानाम् । जनिता । पतिः। सोमः ।
यः । मतीनाम् । पिता । अधि । भुवनानाम् ।। येन । इमा । विश्वा । भूतानि । मर्दन्ति ।
सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥ He is Soma, the lord, the creator of all gods. He is the creator and master of all intellects and of all worlds. All these living beings are delighted by him. He is the truth, he is immortal and is omniscient.
अन्वयभाष्यम् । यः चेतन: आत्मा सोमः दिव्यः रसात्मा मनःसत्त्वः स्वयं आनन्दात्मक सन् देवानां सर्वषामपि देवतात्मनां अग्न्यादीनां जनिता जनयिता तत्प्रादुर्भावहेतुभूतः सन् प्रसिद्धोऽस्ति वेदे, अत्र “जनिता मन्त्रे" (पा. सू. ६.४-५३) इति सूत्रात् जनयितेत्यस्य आर्षेयं रूपं मन्त्रे जनिता इति भवति, यश्च मतीनां विश्वासां धियां जनयिता पिता पालयिता प्रेरयिता च भवति अन्तरात्मरूपत्वात् , तथा सर्वेषां भुवनानां तदनु भूतानां च पिता अधिपतिश्च स्वत:सिद्धोऽस्ति, येन च पुनः परमानन्दरसात्मना इमानि विश्वानि भूतानि मदन्ति हृष्यन्ति, तेन सोमरससत्त्वेनैव मानसेन सौमनस्येन भावेन च सर्व प्राणभृतः परितृप्यन्ति इति भावः, सोऽ यं अन्तरात्मा सत्यः अमृतः सर्वज्ञः इत्यादिकं पूर्ववदेव योज्यम् ॥
एतस्मिन् प्रतर्दनर्षियं ऋमन्त्रदर्शनं भवति :- “सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताऽग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ” (ऋ. मं. ९-९६-५) इति ॥