________________
छन्दोदर्शनम
163
Brahmaṇaspati is the Creator and the self-created. While taking form he roars and breathes forth loudly all the sounds and words and mantras, throughout the heavens, the sky and the earth. Brahmaṇaspati breathed out this universe as the mantra "Im.'
अन्वयभाष्यम्। स: ब्रह्मणस्पतिः जनिता विश्वस्यास्य जगतः जनयिता सन् , तथा जायमानः स्वयमपि विश्वतो रूपेण आविर्भवन् प्रकाशमानश्च सन् संरराणः विश्वविभवार्थं स्वस्य परया वाचा संस्वरन् , विश्वाविश्वानि ब्रह्माणि छन्दोमयानि मन्त्रात्मकानि तत्तद्बीजात्मकशब्दजातानि धमति धमनवत् चेतनाशक्तेः उच्छ्वासतः फूत्कारतः शब्दायते ॥ स: ब्रह्मणस्पतिः दिवा उपरितनया आकाशात्मिकया पृथिव्या अधस्तनया च भस्रायाः पक्षद्वयरूपाभ्यां द्यावापृथिवीभ्यां “ई” ईमित्यनुकरणात्मकेन ब्रह्मणा गुप्तप्रणवात्मकेन मन्त्ररूपेण अक्षरेण शब्दरूपेण नादब्रह्मणा अन्तरिक्षे इदं दृश्यमानं विश्वं जगत् समधमत् धमनतः उच्छ्रासतः स्वयमेव तत् उत्ससर्ज, अस्मिन् अर्थ ऋङ्मन्त्रवर्णोऽपि अस्ति "ब्रह्मणस्पतिरेता सङ्कार इवाधमत्। देवानां पूय॑ युगेऽसतः सदजायत" इति (ऋ. मं. १०-७२-२)॥ एतेन तस्य ब्रह्मणस्पते: चेतनाशक्ते: वाक्स्वरस्य धमनतः असतः इव विद्यमानस्य जगतः आविर्भावः आदिसृष्टौ बभूवेति सिध्यतीति ॥
COMMENTARY-SUMMARY TRANSLATION
Brahmasnaspati is the creator of this universe. While he was being born that is, while he was expanding himself into this universe, he roared with his supreme word-power for this expansion; his roar issued forth in the form of all the composed Rks and their seed-letters. His breathing out was loud. Brahmapaspati used the sky and the earth as the sides of bellows. He created the — Im' sound, the onamopoetic syllable, the secret Pranava Im', the sound-form of Brahma. And he created this visible universe in mid-air by this — Im' mantra. Cf. “ Brahmanaspati forged this universe like a blacksmith blowing the bellows. In the former ages of gods, existence came out of non-existence.” (Rg. X-72-2).
तृतायी ऋक् । ब्रह्मणस्पतियन्मधुना रसेन योयुपद् विश्वा भुवनानि सन्त्मना । स इद् विश्वस्मा अमृते सम्मदाय जीवातवे बृहते विश्वसंसदे ॥ ३॥