________________
छन्दोदर्शनम्
described as having two attitudes (pravṛtti and apravṛtti) due to his forward movement and its absence, or enjoyment and otherwise, one taking food and the other not taking it, and the simultaneous twofold existence is also described in the latter half. The Atharvana mantra also makes it clear: "Then (He) pervaded all round and everything, enjoying and not enjoying at the same time ( Bhogya and Abhogya ). '
99
पदपाठः
नवमी ऋक् ।
अयं प्र॑जा॒नन् अज॑न्यः सन् अमर्त्यो
ऽयं वि॒श्वथा॒ राज॑ते॒ ऽन्तर्य एकः ||
अयं स्वराट् सम्राड् विराड् विभुः प्रभु
र॒यं स॑त्य॒ोऽयम॒मृतो॑ वि॒श्ववे॑दाः ॥ ९ ॥
अयम् । प्रऽजानन् । अज॑न्यः । सन् । अम॑र्त्यः । अ॒यम् । विश्वऽथा । राज॑ते । अन्तरिति॑ । यः । एकः ॥
अयम् । स्वराट् । सम्राट् । विराट् । विभुः । प्रभुः । अ॒यम् । सत्यः । अयम् । अमृतः । विश्वऽवैदाः ॥
CD-36
281
The soul, being of the nature of pure consciousness, is unborn and eternal. He shines forth in various forms throughout the universe. He is alone. He shines by himself. He shines resplendently. He shines all-round and everywhere. He is the lord. He is the truth. He is immortal and knows everything.
अन्वयभाष्यम् |
सः अयं चेतन: अन्तरात्मा प्रजानन् केवलं संवित्सत्त्वः सन् अजन्यः जन्मरहित: नूतनतया न प्रजायते ज्ञानात्मनः नित्यसिद्धत्वात्, तथा अयं सन् सदैव सदात्मकः अमर्त्यः क्षय-विकार - मरणादिरहितः सद्रपत्वादेव, अयं विश्वथा विश्वरूपेण राजते योऽयं सर्वदा स्वयं एक एव सन् एकात्मको भवति, सोऽयं स्वराट् स्वाराज्ययोगेन स्वयम्प्रकाशः, सम्राट् साम्राज्येन राजमानः सार्वभौमः विराट् विशेषेण राजमानः विश्वरूपः, विभुः व्यापकः, प्रभुः अधिपतिः, अयं सत्यः विश्वाधिष्ठानरूपः, केवलं सद्रपश्च, अयं अमृत: अमृतात्मा नित्यमुक्तः रसात्मा अमरणधर्मा अनन्तश्च विश्ववेदाः विश्ववित् सर्वज्ञः स्वयमेव भवतीति ॥
एवं अयं अन्तरात्माः अन्वयत: सर्वज्ञानक्रियादिसत्त्वपूर्णः विश्वरूपः, व्यतिरेकतः सर्वविशेषरहितः केवलं चैतन्यसत्तामात्रया परिपूर्णः अस्तीति वस्तुतत्त्वम् ॥