________________
छन्दोदर्शनम
187
विश्वमिदं वाच्य वाचमत्युदगाद्
ब्रह्म तदीञ्जयोतिर्विश्वस्य दर्शयत् ॥ ९॥ पदपाठ :- ब्रह्मणः । पते । त्वम् । परमम् । ब्रह्म । सन् ।
पुरुषः । सः । आत्मा । बृहन् । सः । इन्द्रः ॥ विश्वम् । इदम् । वाच्यम् । वाचम् । अति। उत् । अगात् ।
ब्रह्म । तत् । ईमिति । ज्योतिः। विश्वस्य । दर्शयत् ॥ Oh Brahmanaspati ! you are Brahma the Supreme. You are the Purusha, the Ātman, the Great One and you are Indra. You are beyond this manifested universe. You are the Brahma, the Light of Lights which illumines the universe.
अन्वयभाष्यम्। हे ब्रह्मणस्पते! त्वम् वागब्रह्मणः अधिष्ठाता पतिः सन् स्वयं परमं ब्रह्मैव असि, त्वमेव परब्रह्मात्मकः इति भावः, स त्वं सन् केवलं सदात्मकः पुरुषः पुरुषसत्त्वकः, विश्वबीजात्मकः आत्मा चेतनः बृहन् महान् व्यापकः, सः त्वं परोक्षसिद्धः इन्द्रः परमैश्वर्यपूर्णः असि ॥ अतः तद् ब्रह्म परोक्षं सत् इदं प्रत्यक्षसिद्धं वाच्यं वाच्यार्थरूपं वस्तुजातं, तथा वाचं वाचकसत्त्वां तां परां शक्तिमपि अति अतिक्रम्य उदगातु ततोऽपि परतः परां काष्ठां अधिष्ठाय केवलं सन्मात्रात्मकं परोक्षसत्त्वेन स्वयं पूर्णं बभूव ॥ तदेव परमं ब्रह्म ई ईमित्यनुकरणमात्रेण निर्देश्यं अवगम्यं ज्योतिः, तत्परञ्ज्योतिरात्मकं अस्य विश्वस्यापि जगतः दर्शयत् प्रकाशकं भवतीति ||
|| इति तृतियेऽनुवाके तृतीयं ब्रह्मणस्पतिसूक्तम् समाप्तम् ||
COMMENTARY-SUMMARY TRANSLATION Oh Brahmanaspati! as the Lord of Vak, the visible Brahma, you are Brahma the supreme, who is pure existence. You are the Purusha, the very seed of the universe; you are the Soul full of energy and you are Indra, the Lordliest of all, and you are beyond the purview of the senses. So, it is Brahma who is this visible universe. That Brahma is to be indicated and attained by the onomatopoetic word İM. It is the light par excellence, which illumines all in this universe.
Thus ends the Third hymn in the third Section.