________________
212
छन्दोदर्शनम
ज्योतिषा स्वेन सरूपेण सत्त्वेन, स्वरेण तद्वाचकेन स्वरसत्त्वेन, रसेन प्रेम संविदानन्दादिसत्त्वेन, चेतनेन चिदात्मना, छन्दसा नित्यसिद्धेन निजेन निबन्धनेन च प्रतिस्वरति तद्वाच्यार्थरूपं अक्षरं ब्रह्म वस्तु सस्वरं समुच्चरति, तत्प्रतिध्वनिरूपेण स्वयमेवाभ्युदेतीति भावः ॥ तदिदं छन्दोमयवाक्स्वरणं विश्वस्यैवास्य जगतः प्राणभृतश्च जीवसे सञ्जीवनाथ परि परितः संविदे ज्ञानाय सम्यग्दर्शनविज्ञानादिप्रकाशनार्थमिति ॥
COMMENTARY-SUMMARY TRANSLATION This Sarasvati, the Speech Supreme, in the form of mantras is Brahma himself. She being divine, unites with the divine Brahmanaspati, the Purusha. Within every soul, with her light, delight and activity, she sings of Brahma, the imperishable. The song is in metres which is eternal and of her making. It means that she rises up independently in the heart of all in the form of an echo. This vibration of Våk in the form of metres is for revivifying everything in this universe and for revealing the knowledge to all.
सप्तमी ऋक् । यो भूतेषूत देवेष्वात्मसु सन्नधि ज्योतिषाऽऽपृतः सन् प्रचेतनः परः॥ व्यस्तो व्यस्तेषूत समस्तः समस्तेषु
विरलः सन् व्यस्तात् परमः समस्तात् ॥ ७ ॥ उदपाठ :- यः । भूतेषु । उत । देवेषु । आत्मऽसु । सन् । अधि ।
ज्योतिषा । आऽपृतः । सन् । प्रऽचेतनः । परः । विऽअस्तः । विऽअस्ते । उत । सम्ऽअस्तः । सम्ऽअस्तेषु ।
विरलः । सन् । विऽअस्तात् । परमः । सम्ऽअस्तात् ।। He is in all elements, all gods and all souls. He is full of His own light. He is all activity. He fills all and everything. He seems to be separate among those which are separate. He seems to be one among those which are united. He is other than the separate ones and higher than the united ones.
अन्वयभाष्यम् । यः ब्रह्मणस्पतिः भूतेषु एतेषु सवषु अचेतनेषु उत च देवेषु दैवतेषु चेतनेषु आत्मसु जीवेषु च सचेतनेषु अधि अधिष्ठितः सन् ज्योतिषा स्वेन चैतन्यज्योतिःसत्त्वेन प्रतिहितः सन् प्रचेतन: केवलं चेतनात्मकः आपृतः समन्तात् सर्वत्रापि पूर्णः प्रतितिष्ठति, अस्तीतिभावः,