________________
पदपाठ :
छन्दोदर्शनम्
अथ प्रथमा ऋक् ।
यद् दे॒वानां॒ निहि॑तं मयि॑ ऋणं पा॑ण॒ यन्म॑नु॒ष्या॑णम॒णम् ॥ इन्द्र॑स्यैव ऋणी भ॑वा॒न्यनु॑णोऽन्याद् इन्द्र॑मे॒व तं वृ॑णे शङ् गम॑ध्यै ॥ १ ॥
यत् । दे॒वाना॑म् । निऽहि॑तम् । । ऋणम् । यत् । ऋषणाम् । यत् । मनु॒ष्या॑णाम् । ऋणम् ॥
इन्द्र॑स्य । एव । ऋणी । भवानि । अनृणः । अन्यात् ।
इन्द्र॑म् । ए॒व । तम् । वृ॒णे । शम् । गम॑ध्यै ।।
1
245
The debt I owe to the gods, to the Rshis and to the mortals is really the debt I owe to Indra only. I am indeed free from debt to all others. I seek Indra only for good fortune and happiness.
अन्वयभाष्यम् ।
मयि देवानां विश्वेषां यत् ऋणं निहितमस्ति, यच्च ऋषीणां अस्मत्पूर्वजानां गोत्रप्रवरादि-प्रवर्तकानां, तथा मनुष्याणां पित्रादीनां तदितरेषां च यत् ऋणं निहितं मयि विद्यतेमदर्थं देवर्षिमनुष्यैः तैः कृतेन उपकारेण तेषां ऋणं ऋणं यत् मयि आपतितं तेषां सर्वेषामपि ऋणानां अपाकरणाय इन्द्रस्यैव सर्वेश्वरस्य तस्य एकस्यैव अहं ऋणी भवानि यः खलु चेतन-प्राणन-जीवन-प्रज्ञानादिदानानुग्रहेण सर्वान् आत्मसात्कर्तुं समर्थः सन् स्वयं सर्वत्रापि प्रभवति, तस्य इन्द्रस्यैव ऋणं सर्वेभ्योऽपि अधिकं इति भावः, अतः अन्यात् अन्यस्मात् तस्मात् देवादीनां सर्वस्मात् ऋणाद् विमुक्तः अनृण: ऋणरहितः तं इन्द्रमेव कल्याणार्थं सुखशान्तये च शरणं व्रजामीति ॥
COMMENTARY-SUMMARY TRANSLATION
For the various benefits bestowed on me by the gods, the Rshis and men, I owe them debts. But I am indebted to Indra, the overlord, the most because it is he who has given me life, knowledge and power to act. It is with the help of these I liquidate the debts of all others. Therefore, the debt to Indra, is greater than the debts due to others. Thus, I free myself from all debts due to the gods and the others. I seek Indra only to get bliss and peace.