________________
110
छन्दोदर्शनम
अन्वयभाष्यम्। हे सरस्वति ! त्वं दिवि तपन्तं तं स्वीयं अमुं सवितारं उत्तम ज्योतिः ज्योतिरात्मानं श्रिता सती सावित्री सवितुः नाम-रूप-गुण-क्रियादिभिः सम्पन्नतरा स्वयमपि उत्तमा उत्तमलोकाधिराज्ञी राजसे, तथा स्वरवती च सती प्रकाशसे, तस्मात् हे वाक् ! सा त्वं अस्य विश्वस्य जगतः प्रतिमानं तुल्यं मानरूपं अधिष्ठानात्मकं च बीजं च स्वयं भवसीति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you resort to that Sun, who is close to you. You shine with Him. You have His name, form, quality, function and other attributes. You shine as the queen of the high skies. You are Vák, the evidence of the fundamental seed of this universe.
चतुर्थी ऋक् । सरस्वति त्वं भुवि श्रृता ज्वलन्त तमिममग्निमम ज्योतिः स्वकम् ॥ अग्नायीयमवमा ज्योतिष्मती
वाग् विदा प्रतिमान विश्वस्याधि बीजम् ॥ ४॥ पदपाठ :- सरस्वति । त्वम् । भुवि । श्रिता । ज्वलन्तम् ।
तम् । इमम् । अग्निम् । अवमम्। ज्योतिः। स्वकम् ॥ अग्नायी। इयम् । अवमा । ज्योतिष्मती ।
वाक् । विदा । प्रतिऽमानम् । विश्वस्य । अधि । बीजम् ॥ Oh Sarasvati ! you resort to this burning fire here on earth, and you become the wife as it were, of Agni (Agnayi) the earthly light. You are Vak, the evidence and seed of the universe.
अन्वयभाष्यम् । हे सरस्वति ! त्वं अस्यां भुवि प्रत्यक्ष ज्वलन्त स्वीयं इमं अवमं अधस्तनं ज्योति:स्वरूपं अग्नि श्रिता सती इयं अग्नायी अग्निजाया शक्तिः ज्योतिष्मती भवसि, अत्र आग्नेयं ज्योतिरेव वाचः स्वीयं रूपं भवति, “ मुखादिन्द्रश्चाग्निश्च" (ऋ. मं. १०-९०-१३), " मुखादग्निरजायत" (शु. य. सं. ३०), " मुखाद् वाग् वाचोऽग्निः' (ऐ. उ. १-१-४ ), “ अग्निर्वाग् भूत्वा मुखं प्राविशत्" (ऐ. उ. १.२-४) इति च ऋमन्त्रवर्णः औपनिषदं वचनं च प्रमाणम् ॥ तस्मात् सा वागेव विदा अस्य विश्वस्य प्रतिमानं समानं प्रमाणभूतं अधिष्ठानात्मकं मूलं बीजं च भवतिति ॥