________________
152
छन्दोदर्शनम
ज्ञानशक्त्या क्रतुना स्वात्मसत्त्वेन कर्मणा च आप्लुतं समृद्धं स्तन्यं तव वाग्रसेन स्वाहास्वधाकारादिना सत्त्वेन पूर्ण स्वं रसं आत्मीयं रसं माता इव मातृवत् सिद्धा त्वं वाङ्माता सुतं पुत्रमिव स्थितं मां धापय पायय, यतः सा त्वं वागेव पुरुषस्य सर्वस्यापि परमा श्रेष्ठतमा हिततमा माता प्रसवित्री पालयित्री च असि, परमात्मनस्तु प्रमात्री भवसीति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Venerable one, you are Sarasvati full of the mother's milk in the form of all the powers of Brahma. He is the very source of all intellect, the power of all expression, the power of knowledge and of the will to act. Like a mother you should feed me with all powers. You alone have them as you are one with Brahma.
चतुर्थी ऋक् । सरस्वती त्वं वत्सं धापर्यन्ती मां सत्य तत् प्रगाय यद् भवस्यनु स्वयम् ।। भूयस्तदनु गायन्ती लालयच्छन्दसा
वाग् विदा परमा पुरुषस्य माता ॥ ५॥ पदपाठ :- सरस्वती । त्वम् । वत्सं । धापयन्ती । मां ।
सत्यं । तत् । प्र। गाय । यत् । भवसि । अनु । स्वयम् ॥ भूयः । तत् । अर्नु । गायन्ती । लालय । छन्दसा ।
वाक् । विदा । परमा । पुरुषत्य । माता ॥ Oh Sarasvati ! You are like my mother feeding me at your breast. Kindly express the truth of your experience in song. While singing the same in a metrical form fondle me who am your child. Your are indeed Vák, the measure and mother of the Supreme Purusha. That you are in virtue of intelligence.
अन्वयभाष्यम् । हे भगवति ! त्वं सरस्वति रसात्मा सती त्वत्सुतं मां इमं धापयन्ती स्वीयं स्तन्य रसं पाययन्ती सती यत् स्वयं अनुभवसि तत् स्वानुभवसिद्धं सत्यं वस्तु तथा तद्रससत्त्वं च प्रगाय सरसं सस्वरं च समुच्चारय गीतिरूपेण अनुस्वर इति भावः, तथा भूयः पुनः पुनरपि अनुगायन्ती तदेव अनुस्वरन्ती सती छन्दसा वेदेन गायत्र्यादिना मन्त्रेण स्वरसेन प्रेमभावेन मां लालय लालनेन प्रतिपालय, यतः सा त्वं वागेव पुरुषस्य परमा हिततमा माता, प्रणयित्री प्रणयेन प्रतिनेत्री च साक्षात् जननीति, अनया ऋचा ऋषिः सरस्वतीं प्रति प्रेमरसं याचते, मातृवात्सल्यपूर्णम, तथा पुत्रवात्सल्यसमुदीर्णमिति ॥