________________
104
छन्दोदर्शनम
अष्टमी ऋक् । सरस्वति त्वमक्षरं सत् परम विश्वान्येवाक्षराणि त्वत् क्षरन्ति | विश्वथा ब्रह्म वाचः संविदः क्षरति
वाग् विदा वरं ब्रह्म संविदो योनिः ॥ ८ ॥ पदपाठ:- सरस्वति । त्वम् । अक्षरम् । सत् । परमम् ।
विश्वानि । एव । अक्षराणि । त्वत् । क्षरन्ति ॥ विश्वऽथा । ब्रह्म । वाचः । सम्ऽविदः। क्षरति ।
वाक् । विदा । वरम् । ब्रह्म। सम्ऽविदः। योनिः ॥ Oh Sarasvati ! you are the indestructible great truth. All these universes come out (are expressed ) of you as well as all knowledge. Brahma the inexpressible is expressed in the form of the universes by your power of intelligence. Oh Vák, you by your knowledge are Brahma and the source of all knowledge.
अन्वयभाष्यम् ।
हे सरस्वति ! त्वं स्वयं परमं अक्षरं वस्तु सदेव असि, तस्मात् त्वत् त्वत्तः विश्वानि अक्षराणि क्षरन्ति आविर्भवन्ति, तथा त्वत्त: एव सर्वाः संविदोऽपि क्षरन्ति वाङ्मुखेनैव सर्वेषां ज्ञानानां आविर्भावः इत्यर्थः॥ तथा वाचः सकाशादेव ब्रह्म क्षरति अक्षरं निर्गुणमपि तद् ब्रह्म वस्तु वाचैव सगुणतामुपैतीति यावत् | वाचः एव विश्वमपि इदं क्षरति उत्पद्यते, तस्मात् सा वागेव ज्ञानेन वरणीयं ब्रह्म, अतः सर्वेषामपि सर्वस्मिन् अर्थ वागेव अवलम्बना सर्वस्याः अपि संविदः हेतुभूता सा वागेव भवतीति ||
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati! you are the indestructible great truth. The universes issue from you because you alone can express them. All knowledge dawns through intelligence, words and speech. Even Brahma who is without name and form assumes them when manifested by speech as the universe. Våk or speech is the source therefore of all knowledge.