________________
48
छन्दोदर्शनम
अथ प्रथमेऽनुवाके अष्टमं मरुपितृरुद्रसूक्तम् |
मरुत्पिता रुद्रः।
अनुवाकः १ । सूक्तम् ८ । ऋचः १-५ । यो रुद्रस्य सूनुः पञ्च, दैवरातो वैश्वामित्रः, मरुत्पिता रुद्रः, जगती।
Now the Marut-pitri-rudra Sukta, 8th in the first Anuvaka Section 1-Hymn 8–-Riks 1-5-RUDRA, THE FATHER OF MARUTS
This Hymn beginning with “Yo Rudrasya ” contains five Rks: Daivarăta Vaišvamitra is the Rshi: the god is Rudra the father of Maruts; the metre is Jagati.
अथ प्रथमा ऋक्। यो रुद्रस्य सूनुर्मरुदन्तरिक्षे प्रति चेतयते विश्व पर्वमानः॥ विश्वेष्वेव भूतेषु चेततेऽन्त
मरुतां स पिता रुद्रो मध्यमः ॥१॥ पदपाठः- यः। रुद्रस्य । सूनुः। मरुत् । अन्तरिक्षे ।
प्रति । चेतयते । विश्व । पर्वमानः॥ विश्वैः । एव । भूते हैं । चेतते । अन्तरिति ।
मरुतां । सः । पिता । रुद्रः। मध्यमः ।। Rudra's son Marut, moving in mid-air, animates the universe. He is the animator of all from within and of everything also. He is the father of Maruts. Rudra dwells in mid-air.
अन्वयभाष्यम् । मध्यमे लोके अन्तरिक्षे निजे भुवने यत्र इन्द्रः वायुश्च सङ्गतौ सन्तौ सहैव सम्राजेते, तस्मिन्नेव मध्यमे स्थाने रोदस्योः सन्धौ रुद्रस्य भगवतः सूनुः पुत्रः मरुत् पवमानः सन् प्रवहन् विश्वं जगदिदं अचेतनं भूतं प्रति चेतयते प्रचेतयति, य एव खलु विश्वेषु भूतेषु अन्त: स्वेन प्रचेतनेन रूपेण चेतते स्फुरति, स: परोक्षसिद्धः सर्वान्तर्यामी मरुतां पिता जनयिता प्रतिपालयिता च सन् विश्वप्राणचितिशक्तिपूर्णः मध्यमलोकाध्यक्षः प्रभवति || तथा च “ आ ते पितमरुतां सुम्नमेतु." इति (ऋ. मं. २-३३-१) मन्त्रवणे रुद्रस्य. मरुत्पितृत्वं अनुश्रूयते, व्यापकस्यापि वायो:- अर्थात् मरुतां तेषां जनकत्वं तु रुद्रस्य वैद्युतज्योतिःशक्तियोगात्