________________
छन्दोदर्शनम्
87 वाचमेव प्रतिप्रविशति, तदेवास्य नामावशेषत्वमिति भावः, तस्मात् सा वागेव ब्रह्मणो माता विदा-ज्ञानेन ज्ञानार्थं च प्रमात्री, तथा विश्वस्यास्य जगतः योनिः प्रसवित्री इति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you create this universe, and you are the cause of its maintenance. You are the central force. Therefore, we hear that the first creation was from Vāk. From the very force of Vàk which is superior to all, the universe comes into being, lives now and in future, till its dissolution; it lives being fed by the essence of the Word. Again at last, this whole universe will crumble and get reabsorbed into the very word out of which it came and will remain by name only ( Namavasesha). So, it is the word that is the measure of Brahma and the mother of this universe.
दशमी ऋक् । सरस्वति त्वं भी विश्वस्य बीजमाविहितं तद् वाचा प्राणभृदेतत् ॥ पद्यते विश्वं प्रत्यभिधां स्वां वाचं
वाग् विदा माता विश्वस्य ब्रह्मणो योनिः ॥ १० ॥ पदपाठ :- सरस्वति । त्वम् । भौं । विश्वस्य । बीजम् ।
आविः । हितम् । तत् । वाचा । प्राणऽभृत् । एतत् ।। पद्यते । विश्वम् । प्रति। अभिऽधाम् । स्वाम् । वाचम् ।
वाक् । विदा । माता। विश्वस्य । ब्रह्मणः। योनिः ।। Oh Sarasvati ! you are the supporter of the universe. The universe in the form of word and meaning is manifested by you. This universe merges into the Word which is its name. You are Vāk, the mother of the universe and proof of Brahma.
अन्वयभाष्यम्। हे सरस्वति! त्वं विश्वस्य जगतः भी धारयित्री, ततः विश्वस्य बीजरूप नामरूपात्मकं एतत् प्राणभृदेव सत् विश्वं वाचैव आविहितम् प्रकटितम, अत: इदं विश्व स्वां स्वां निजां अभिधात्मिकां वाचमेव प्रतिपद्यते प्राप्नोति, तस्मात् सा वागेव ब्रह्मणो माता विदा ज्ञानेन प्रमात्री, तथा विश्वस्यास्य जगतः प्रसवित्री योनिः योनिस्थानीया मातृत्वसत्त्वपरिपूर्णा भवति इति ||