________________
छन्दोदर्शनम
85
विदा-संविदे हेतुभूता, तथा विश्वस्यास्य जगतः योनिः प्रसवित्री च इति ॥ अत्राय विशेषः
-सा वागेव विश्वस्य माता जननी, तथा ब्रह्मणः विदा-संविदे च योनिः तद्विज्ञानकारणीभूता प्रत्यक्षप्रमाणरूपा च चागेव भवितुमर्हति तस्मात् सा माता इत्यपि योजयितुं शक्यम् , तेन " शास्त्रयोनित्वात्" इति (ब्र. सू. १-१-३) सूत्राधिकरणार्थः सङ्गच्छते इति ॥ तथा च शारीरकं भाष्यवचनम् -- " अथवा यथोक्तं ऋग्वेदादिशास्त्रं योनिः कारणं प्रमाणं तस्य ब्रह्मणो यथावत् स्वरूपाधिगमे, शास्त्रादेव प्रमाणाज्जगतो जन्मादिकारणं ब्रह्म अधि. गम्यते इत्यभिप्रायः" इति ॥
COMMENTARY_SUMMARY TRANSLATION Oh Sarasvati ! in knowledge, in the power of desire, in the power to act, you are full of His faculties. You are full of the power of knowing, power of desiring, and power of doing everything; and so, you are His equal in everything. Therefore, you are indeed, Vak, the measure of Brahma and the mother of all this universe.
अष्टमी ऋक् ।
सरस्वति त्वमदितिः परं व्योम वाचाऽर्व शिष्टं त्वयि विश्वमेतत् ॥ ब्रह्मणा गर्भे विश्वं तदु धत्से बीजं
वाग विदा माता विश्वस्य ब्रह्मणो योनिः ॥ ८ ॥ पदपाठ :- सरस्वति । त्वम् । अदितिः । परम् । विऽओम ।
वाचा । अव । शिष्टम् । त्वर्यि । विश्वम् । एतत् ।। ब्रह्मणा । गर्ने । विश्वम् । तत् । ऊम् इति । धत्से । बीजम् ।
वाक् । विदा । माता । विश्वस्य । ब्रह्मणः । योनिः ॥ Oh Sarasvati ! you are Aditi ( the Mother ) and the sky beyond. This whole universe dwells in you in the form of Word ( even before creation ). From Brahma you receive in your womb the seed of this universe. You are Vák, the mother of the universe and proof of Brahma.
अन्वयभाष्यम्। हे सरस्वति! त्वं परमव्योमात्मिका अदितिः आदिमाता, अतः त्वयि अखण्डात्मिकायां अदितौ परमे व्योमनि एतद् विश्वं जगत् वाचैव वायूपेणैव अवशिष्ट सृष्टेः प्रागपि