________________
छन्दोदर्शनम्
83
अन्वयभाष्यम् । हे सरस्वति ! त्वं विश्वस्यापि अस्य जगतः प्रसूत्यै प्रसवार्थं स्वं पुरुषं परं ब्रह्मात्मकं पतिं चेतनात्मानं वृणुषे स्वीकरोषि इति भावः, तथा संविदा तं स्वं प्रतिरूपं सगुणं सर्वगुणपूर्ण भावयसि, निर्गुणं निविशेषमपि तत् परं ब्रह्म वाचैव सगुणं सविशेष सम्भाव्यते, प्रतिबुध्यते च इति यावत् , ततः सा वागेव ब्रह्मणो माता तस्य विदा संविदे च प्रमात्री सती विश्वस्यापि जगतः अस्य प्रसवित्री योनिः कारणभूता इति ||
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! to mother this universe you accept as your Lord the Supreme Brahma. By your intelligence, you transform the Brahma who is without form and attributes into an embodied being full of attributes. He is in essence attributeless and without individuality (Nirviśesha ). you make him an individual and full of attributes. The incognizable becomes cogniza. ble when associated with you. Therefore, you are indeed the measure of Brahma. You are the mother of this universe and proof of Brahma.
षष्ठी ऋक् । सरस्वति त्वं ब्रह्मणे स्वमात्मान संविदाऽर्पयसि ब्रह्म सङ् गमध्यै || च्यावयसि ब्रह्मचिति प्रति त्वयि
वाग विदा माता विश्वस्य ब्रह्मणो योनिः ॥ ६ ॥ पदपाठ :- सरस्वति । त्वम् । ब्रह्मणे । स्वम् । आत्मानम् ।
सम्ऽविदा । अर्पयसि । ब्रह्म । सम् । गमध्यै ॥ च्यावयसि । ब्रह्मऽचितिम् । प्रति । त्वयि ।
वाक् । विदा । माता । विश्वस्य । ब्रह्मणः । योनिः ।। Oh Sarasvati ! through your intelligence, you offer yourself to Brahma to be united with Him. You attract unto yourself His animating power. You are Våk, the mother of this universe and the proof of Brahma.
अन्वयभाष्यम् । हे सरस्वति ! त्वं तस्मै स्वस्मै परस्मै ब्रह्मणे ब्रह्मात्मने स्वपतये स्वं सर्वस्वं निजं आत्मानमपि संविदा समर्पयसि, तत्परमानन्दानुभावार्थं च तदू ब्रह्म वस्तु सगमध्ये