________________
छन्दोदर्शनम्
अन्वयभाष्यम् ।
सरस्वति ! त्वं स्वे निजे ब्रह्मणि ब्रह्मात्मके पुरुषे अधिपतौ संहिता सती चित्तिः चेतनाशक्ति: सुभद्रा मङ्गलमयी बलीयसी च, विश्ववित् सर्वज्ञानशक्तिः, सुसन्दृक् सम्यग्दर्शनक्रियाशक्तिः, सत्येन अविनाशित्वादिधर्मेण प्रचेतनेन उत सत्त्वेन च सत्त्वगुणेन सत्तया च सः पुरुषः यावान् सन्ततः पूर्णोऽस्ति, हे वाक् ! त्वमपि तावत्येव सर्वैः भावैः गुणैश्व स्वयं पूर्णाऽसि तद्योगेनेति ||
72
COMMENTARY-SUMMARY TRANSLATION
Oh Sarasvati! being one with your Lord Brahma, by your knowledge and activity, you are Subhadra, full of the power to do good. You are all-knowing and all-seeing. Oh Vak, you are as eternally true, full of energy and power as the Purusha Himself since you are one with Him.
पदपाठ :
तृतीया ऋक् ।
सर॑स्वति॒ि त्वं ब्रह्म॒ ब्रह्म॑ण॒स्ते पतिः
पुरु॑ष॒स्तमनु॒ स्वर॑न्ति॒ रस॑न ||
ब्रह्म॑ण॒स्पति॒ छन्द॑सा॒ प्रति॒समृ॑ता॒
ताव॑ती वाक् पूर्णा या ब्रह्म॒ पर॑म् ॥ ३ ॥
सर॑स्व । त्वम् | ब्रह्म॑ । ब्रह्मणः । ते । पतिः । पुरु॑षः । तम् । अनु॑ । स्वरन्ती । रसैन | ब्रह्मणः । पर्ति । छन्द॑सा । प्रति॑ि । सम्ऋता ।
तावती । वाक् । प्रऽपूर्णा । याव॑त् । ब्रह्म । परम् ॥
1
Oh Sarasvati! you are Brahma Himself. Brahma who is your Lord, is the Supreme Purusha. You praise the Brahmanaspati with love and song, namely by Vedic compositions and you know Him. Vak is as full of powers as the great Brahma.
अन्वयभाष्यम् ।
हे सरस्वति ! त्वं प्रत्यक्षं ब्रह्म श्रोत्रेन्द्रियगोचरत्वात्, तस्या: ते ब्रह्मण: ब्रह्मरुपायाः तव पतिः स परमः पुरुषः, तं परमात्मानं छन्दसा वेदेन स्वरसेन च समृता सम्प्राप्ता, तथा तं ब्रह्मणस्पति तत्सञ्ज्ञकं सर्ववेदाध्यक्षं प्रति रसेन प्रेम्णा अनु संसरन्ती अनु गायन्ती च सा वाक् तावती प्रपूर्णा व्यापका भवति यावत् खलु तत् परं ब्रह्म परिपूर्णं स्वतः सिद्धं नित्यमेव अस्ति इति ॥