________________
78
छन्दोदर्शनम्
अथ द्वितीयेऽनुवाके चतुर्थ सरस्वतीसूक्तम् ।
अनुवाकः २ । सूक्तम् ४ | ऋचः १-११ | सरस्वती |
सरस्वति त्वं ज्योतिषा एकादश, देवरातो वैश्वामित्रः, सरस्वती, जगती ।
Now the Sarasvati Sukta, fourth in Second Anuvaka Section II, Hymn 4, Riks 1-11 - SARASVATI.
This Hymn beginning with "Sarasvati tvam jyotisha" contains eleven Rks. Daivarāta Vaisvamitra is the Rshi. Sarasvati is the godess and Jagati is the metre.
अथ प्रथमा ऋक् |
सरस्वति त्वं ज्योति॑िषा चेर्तमाना
ब्रह्म॑णा ब्रह्म तप॑सा संविदाना ||
सत्या त्वममृता त्वमक्षरा परा
वाग् वि॒दा मा॒ता विश्वस्य॒ ब्रह्म॑णा॒ योनि॑ः ॥ १ ॥
पपाठ:- सर॑स्वति । त्वम् । ज्योति॑षा । चेत॑मा॒ना ।
ब्रह्मणा । ब्रह्म । तप॑सा | सम्ऽविदाना || स॒त्या । त्वम् | अमृत । त्वम् । अक्षरी । परो । वाक् । विदा | माता | विश्वस्य । ब्रह्मणः । योनिः ॥
Oh Sarasvati! you are animated by divine light Being united with Brahma, you know Brahma by Tapas. You are true, immortal and imperishable. You are indeed the great Vak; you are, through your knowledge, the mother of the universe, and you prove the existence of Brahma.
अन्वयभाष्यम् |
हे सरस्वति ! त्वं शब्दरूपाऽपि ज्योतिषा ज्योति: स्वरूपेण ब्रह्मणा सद्वस्तुना चेतमाना, तथा स्वेन तपसा अन्तर्विमर्शात्मकेन तत् परं वस्तु संविदाना जानती च सती सत्या सत्यस्वरूपा अमृता नाशविकारादिरहिता अक्षरा अक्षरब्रह्मात्मिका नामरूपादिभिः सत्यादिगुणैश्च पूर्णा सा वाक् वाचकशक्तिस्वरूपा सती ब्रह्मणः विदा संविदा संविदे च माता प्रमात्री तथा विश्वस्यास्य जगतः योनिः कारणभूता प्रमाणभूता भवतीति ॥