________________
46
छन्दोदर्शनम
अन्तरिक्षस्थो वायुः हृदिस्थः प्राणः सहसा बलेन इन्द्रवान् भवति, प्राणस्य च वायोः बलकर्मणा सोऽयं वायुः इन्द्रवान् इति गम्यते, यद् यद् वै बलकर्म इन्द्रस्यैव तद् भवितुमर्हतीति ||
COMMENTARY-SUMMARY TRANSLATION He makes sound when he moves externally in the mid-air. He echoes the whole sound in the sky. He lives in the body and in the head of everybody as Anahata-the uncaused sound and its reflection in the Muladhara. He inspires the Word, which expresses itself through Pràņa, helped by Indra and Agni. He (who does all this) is Vayu of the mid-air, who is in the heart ( of everybody ) as Pråņa. He is strong and is always in the company of Indra. Prana and Vayu are names for strength. So, Indravan-Vayu means work done with the help of Indra.
पञ्चमी ऋक्। यो न दृशेऽरमदर्शतो येनेदं दर्शतं बभौ यो दर्शतोऽभूत् प्रति । वायुः सहसेन्द्रवान् स मध्यमः
स उत्तम ज्योतिर्विश्वस्य दर्शयत् ॥५॥ पदपाठः- यः । न । दृशे । अरै । अदर्शतः । येन । इदं ।
दर्शतं । बभौ । यः । दर्शतः । अभूत् । प्रति ।। वायुः । सहसा । इन्द्रऽवान् । सः। मध्यमः। सः । उत्ऽतमं । ज्योतिः । विश्वस्य । दर्शयत् ॥
He is not within sight and so is invisible. By him everything is seen. But he becomes visible through living beings. He is Väyu with all might in the company of Indra. He dwells in mid-air. He is the best light which illumines the whole universe.
अन्वयभाष्यम् । यः खलु दृशे द्रष्टुं न अरं न अलं न भवति, न शक्य: इति यावत् , अत एव सः अदर्शतः अदर्शनीयः रूपरहितत्वात्, “ध्राजिरेकस्य ददृशे न रूपम्" (ऋ. मं. १-१६४४४) “घोषा इदस्य शृण्विरे न रूपम् ” (ऋ. मं. १०-१६८-४३) इति च तन्मन्त्रवर्णयोः वायोः तस्य नीरूपत्वोपवर्णनात् , तत्र “गतिरेकस्य दृश्यते न रूपम् मध्यमस्य” इति (नि. १२-२७-१) यास्कनिरुक्तवचनाच्च, येन च वायुना इदं अचेतनं विश्वं जगत् तथा इदं