________________
छन्दोदर्शनम
31
COMMENTARY-SUMMARY TRANSLATION In this world, sacrifice can be manifold, as Tapas, study, wisdom, offering etc. All that is Agni himself, because He is instrumental to all sacrifices. He is the Lord of sacrifice as well as the conductor of sacrifice. The result of sacrifice is also Agni. Though he is the sacrificer himself, it is he that conducts the complete sacrifice, with speech (prayer ), with all means of knowledge, services, with senses internal and external, and with the physical offerings like milk, ghee etc. He is worshipable by the sacrifice to be performed. That Agni is the oldest of all deities as well as men. He is the sacrificer. This is the praise and description of Agni as Yajñapurusha, Viśvarüpa--the Omnifarious—in sacrifices.
__ पञ्चमी ऋक | अग्निरयं सुनीती सुपथाऽस्मान् सुषुम्णैः सत्ये नयतु प्रणेता ॥ स सेनानीविश्वस्येह प्रचेतनः
सहस्वान् संहते प्रतिपदं बलम् ॥ ५॥ पदपाठ :- अग्निः। अयं । सुऽनौती। सुऽपा । अस्मान् ।
सुऽसुम्नैः । सत्ये। नयतु । प्रऽनेता ॥ सः। सेनाऽनीः। विश्वस्य । इह । प्रऽचेतनः।
सहस्वान् । सहते । प्रतिऽपदै । बलम् ॥ May Agni, the good leader guide us as the conductor, by proper paths to happiness and truth. He is the commander of all in this world. He knows and is powerful and at every step, he can stand all opposition.
.. अन्वयभाष्यम् । अयं अग्निः सुनीती सुनीत्या प्रणयेन सुष्ठु नयनेन च सुषुम्णैः सुसुम्नैः सुसुखैः, “सुम्नं” इति सुखनाम, हेत्वर्थे तृतीया, “फलमपीह हेतुः" इति न्यायात् सुष्ठुसुखार्थं अस्मान् निजोपासनापरायणान् सुपथा सन्मार्गेण नयतु, सत्ये वस्तुनि सद्विषये च प्रेरयतु, " अग्ने नय सुपथा राये अस्मान्" (ऋ. मं. १-१८९-१) इति मन्त्रवर्णेऽपि तदनुश्रवणं समानम्, तत्सुखस्य सुष्टुत्वं तु सद्विद्याविषयकत्वात् निर्विषयकत्वात् आत्मविषयकत्वात् परमार्थविषयकत्वाच्च भवितुमर्हति, स एवाग्निः अस्माकं सर्वेषां प्राणभृतां प्रणेता जनयिता प्रेरयिता च, सः इह प्रपञ्चे अस्य विश्वस्य जगतः प्राणिनां सामान्यतः, सर्वषां मनुष्याणां