________________
छन्दोदर्शनम्
37
अथ प्रथमेऽनुवाके षष्ठं मरुत्वदिन्द्रसूक्तम् ।
मरुत्वान् इन्द्रः। अनुवाकः १ । सूक्तम् ६ । ऋचः १-५ । यो विद्यता पञ्च, दैवरातो वैश्वामित्रः, मरुत्वान् इन्द्रः, जगती ।
Now the Indra Sukta, 6th in the first Anuvaka
SectionI-Hymn 6-Riks 1-5-MARUTVAN INDRA This Hymn beginning with “Yo Vidyuta” contains five Rks: Daivarăta Vaiśvāmitra is the Rshi: the god is Marutvàn Indra and the metre is Jagati.
__ अथ प्रथमा ऋक् । यो विद्युता जगतामीष्टे पुरुषो यो देवैर्विश्वर्य उ सयुङ् मरुद्भिः॥ आत्मन्वी स सप्राणश्चेततेऽन्तः
सेन्द्रो मरुत्वान् राजतीह स मध्यमः ॥१॥ पदपाठ :- यः । विऽद्युता । जगतां । ईष्टे। पुरुषः।
यः । देवैः । विश्वैः । यः । ऊ इति । सऽयुक् । मरुत् ऽभिः ॥ आत्मन्धी । सः । सऽप्राणः । चेतते । अन्तरिति । सः । इन्द्रः । मरुत्वान् । राजति । इह । सः । मध्यमः॥
He the great person rules over the three worlds. The Viśvedevas and Maruts are with him. He is the master of himself. As Prāņa, he inspires all from within. He is Indra with the Maruts. He shines in the world and is the Lord of the mid-air.
अन्वयभाष्यम्। यः खलु परमः पुरुषः सर्वेषां जगतां प्रशास्ता सन् ईष्टे प्रभवति, यश्च विश्वैः देवैः वैश्वदेवगणैः सर्वेश्च देवैः देवगणैश्च सयुक् सहयुक्तः, तथा मरुद्भिः सह मरुद्गणेन च संयुक्तः सन् सः इन्द्रः पारमैश्वर्यादिसर्वगुणगणपरिपूर्णः पुरुषः मरुत्वान् इति वेदे संश्रयते, " सजोषा इन्द्र सगणो मरुद्भिः" (ऋ. में ३-४७-२) “ मरुत्वा५ इन्द्र वृषभो रणाय" (ऋ. मं. ३-४७-१) इति मन्त्रवर्णात्, सः इन्द्रः आत्मन्वी आत्मवान् सर्वतन्त्रस्वतन्त्रः, सर्वेषां प्राणभृतां आत्मा, सप्राणः प्राणैः सहित: सर्वेषां अन्तः चतते संस्फुरति चेतनात्मैव