________________
छन्दोदर्शनम् तुरीयं तत् पदं परमं प्रति ऋतः
सो अग्निः परो ज्योतिर्विश्वस्य दर्शयत् ॥ १० ॥ पदपाठ :- आग्निः । अयं । धामऽसु । त्रिषु । राजते ।
भूः। भुवः । स्वरिति स्वः । महःऽभिः । परि। इतैः ॥ तुरीये । तत् । पदं । परमं । प्रति । ऋतः । सः। अग्निः । परः । ज्योतिः। विश्वस्य । दर्शयत् ॥
This Agni shines in the three abodes, Bhah, Bhuvah, and Svah surrounded by the three lights. -( Agni, Vayu & Surya) But he goes to the fourth abode, which is higher than these three. This Agni is Param Jyoti- the best light and he illuminates all.
अन्वयभाष्यम्। अयमेवाग्निः “ भूः भुवः स्वः” इति व्याहृतित्रयप्रतिपादितैः भुवनत्रयाधिष्ठितैः सर्वत्र व्याप्तैः त्रिभिः ज्योतिर्भिः अग्नि-वायु-सूर्यस्वरूपैः समस्तः संहितः सनू तेन ज्योतिस्त्रयरूपेण त्रिषु धामसु पृथिव्यन्तरिक्षास्थानेषु राजते प्रकाशते, ततश्च तेभ्यः त्रिभ्यः अतिरिक्तः सन् स्वीय तत् तुरीयं पदं परन्धामस्वरूपं प्रति उपगतः सन् सोऽग्निः परः विश्वस्यापि जगत: दर्शयत् प्रकाशकं परं ज्योतिः, तत्परञ्ज्योतिःस्वरूपोऽयमग्निः इति ॥
॥ इति प्रथमेऽनुवाके आग्नेयं पञ्चमं सूक्तं सम्पूर्णम् ॥
COMMENTARY_SUMMARY TRANSLATION This Agni exists in Bhah, Bhuvah and Svah, the three worlds. He shines in the form of Agni, Vayu and Aditya. The three worlds are Prthvi (this world ), Antariksha ( the mid-air ) and Dyu ( sky). Agni shines in all these abodes as the three deities. He goes beyond to the fourth abode, which is the highest and his own. This Agni in his fourth abode is the Param Jyotithe light par excellence, who illuminates all and everything.
Thus ends the fifth hymn in the first Section,